SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। स्वयं शुक्लस्थानप्रविष्टस्य जङ्गमस्य स्थावरस्य च विक्रेतुः कियद्देयमित्यत्र । विष्णुः, 'स्वदेशपण्याच्छुल्कांशं दशममादद्यात् । परदेशपण्याच्च विंशतितमम्। __ स्वदेशपण्ये बणिजामुत्पन्नलाभ दशमांशं राजा गृहौयात् परदेशपण्य उत्पन्नलाभे विंशतितममित्यर्थः । अचाशुनाशिनि द्रव्यविशेषे विशेषमाह गौतमः,राज्ञ इत्यनुवृत्ती, मूलपुष्पौषधमधुमांसतणेन्धनानां षष्टिः क्षणधर्मित्वात्तेषु नित्ययुक्तः स्यात् । षष्टिः षष्टितमभागं, तेषु मूलादिषु, क्षणधर्मित्वात् क्षणविनाशधर्मित्वात्, नित्ययुक्तो नित्यावहितो यतः स्यादित्यर्थः इति हलायुधः। एवमेव रत्नाकरः। कामधेनौ तु तद्दणधर्मत्वादिति स्पष्टमेव पठितम् । मिश्रस्तु षष्ठ इति पठित्वा षष्ठांशो राजग्राह्य इति व्याख्यातम् । सामुद्रिकेषु पण्येषु सारोवारपूर्वकं शूल्कग्रहणमित्याह बौधायनः, सामुद्रः शुल्को वरं रूपमुद्धृत्य दशपलं शतमन्येषामपि सारानुरूप्येणानुपहत्य ध प्रकल्पयेत् । सामुद्रः समुद्रादागतपण्यगोचरः, तत्र पण्येषु वरं मुक्ताफलादिकं गृहीत्वा शतपणमूल्ये दशपणं गलौयादन्येषामपि लाभभूयस्त्वप्रयोजक-देशान्तरागतानां सारानुसारेण श्रेष्ठं १ क ख स्वदेशपण्यानां शुल्कादशं । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy