SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ दण्डविवेकः । अनयोर्नासा-कर-चरण-कर्णादिछेदरूपो विकृतौ घात इत्यर्थः। यश्च परोप्तं क्षेत्रं बलेन वहति स बीजोत्क्रोष्टेति मिश्राः। याज्ञवल्क्यः सम्भय बणिजां पण्यमनश्रृणावरुन्धताम् । विक्रोणतां वाऽभिहितो दण्ड उत्तमसाहसः ॥ अनघेणानुचितमूल्येन अवरुन्धतां विकोणताम् । मनुः, राज्ञः प्रख्यातभाण्डानि प्रतिषितानि यानि च । तानि निर्हरतो लाभात् सर्वहारं हरेन्नृपः ॥ यान्यतिशयेन राजोपभोगयोग्यत्वेन प्रसिद्धानि करि'तुरगादौनि मणिमुक्तादौनि च । अत्र मनुटौकायां स्वदेशोद्भवानौति विशेषितम्। तथा यानि दर्लभाणि धान्यादौनि नैतान्यन्यत्र देशे विक्रेतव्यानौति राज्ञा प्रतिषिड्वानि तान्यन्यत्र देशे लाभात् विक्रौणानेन बणिजा यत्किञ्चिद्भाण्डेनार्जितं तत्तत्सर्व राजा हरेदित्यर्थः। अत्र याज्ञवल्क्यः , व्यासिद्धं राजयोग्यञ्च विक्रौतं राजगामि तत् । मूल्यदाननिरपेक्षं राजा हरेदित्यर्थः । शारीरोऽङ्गच्छेदो वा दण्ड इत्यनुवृत्तौ । शङ्खलिखितौ, प्रतिषिद्धभाण्डनिर्हारे। -- - - - - - १ ख घ करिवरादीनि । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy