SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेयदण्डः । न चेदमुचितं सन्धिच्छेत्तुस्तद्भक्तदातुश्च तुल्यो दण्ड इति। तस्मादिदमपि दण्डगौरवमनुबन्धगौरवादिति नेयम् । अथ नारदः,भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् । शताश्च ये उपेक्षन्ते तेऽपि तद्दोषभागिनः ॥ चौरस्यावग्रहं कत्तुं ये समस्त्यजन्ति तेऽपि चौरा इत्यर्थः । मनुः, राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव देशितान् । अभ्याघातेषु मध्यस्थान् शिष्याचौरानिवेश्वरः ॥ सामन्तान् ग्रामवासिनः समन्तात् समौपस्थितान्। देशितान रक्षार्थमादिष्टान् । अभ्याघातेषु चौरैः क्रियमाणेषु घातेषु मध्यस्थान् उपेक्षकान् । कात्यायनः, आह्वायका देशकरास्तथा चान्तरदायकाः । समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान् ॥ आह्वायकेत्यादौ चौराणामिति शेषः। 'आह्वायकाः प्रेरकाः। अन्तरमवकाशस्थानमिति यावत् । सर्वश्चायमतिदेशो मनुष्यमारणेऽपि द्रष्टव्यः। चौरस्य हन्तु र्वेति याज्ञवल्क्यादिभिरुभयोपादानात् । अथ कात्यायनश्चौराणामित्यनुवृत्तौ,केतारश्चैव भाण्डानां प्रतिग्राहिण एव च । समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान् ॥ भाण्डानां चोरितद्रव्याणाम् । १ क पुस्तके अभ्यागतेषु । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy