SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । इह संसर्गादिकं राजपुरुषाणां ग्रहणनिमित्तं न तु निश्चायकमविनाभावाभावात् । अतएव नारदः, अन्यहस्तात् परिभ्रष्टमकामादुद्धृतं पथि। चौरेण वा प्रतिक्षिप्तं लाप्तं यत्नात् परोक्षयेत् ॥ तस्माचौरत्वनिश्चयो दृष्टेनादृष्टेन वा प्रमाणेनैवेति स्थितम् । मनुः तेषां दोषानभिख्याप्य स्खे स्वे कर्माणि तत्त्वतः। कुव्वौत शासनं राजा सम्यक् सारानुसारतः ॥ येषु पुनः स्तेनत्वमृषिभिरतिदिष्टं तेषां दण्ड एव । उपदेशादतिदेशस्य तदेकार्थत्वात् न तु हृतदानमस्मरणात् । के पुनस्तेतत्र याज्ञवल्क्यः , भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् । दत्त्वा चोरस्य हन्तुर्वा जानतो दण्ड उत्तमः ॥ अवकाशो वासस्थानम्। अग्निश्चोरस्य शौतापनोदनाद्यर्थः। उदकं वृषितस्य वृत्यर्थम् । मन्त्रश्चौर्यप्रकारोपदेशः। उपकरणं चौर्यसाधनं शस्त्रादि । व्ययोऽपहत्तुं गच्छतः पाथेयम् । जानत इति वचनात् तस्य चोरत्वं हन्तृत्वं चाज्ञात्वा भक्तादिदाने दोषाभावः। १ मूले कामादुपगतं भुवि । 11 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy