SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७ दण्डविवेकः। भावात् । परप्रयुक्त्या प्रवर्त्तमानस्य तत्त्वादिस्थानीयत्वात् । स्वामिप्रयुक्त-हय-हस्ति-कुक्कुर-वानरादिवत् प्रवृत्तेः पराधीनत्वात् । एवञ्च यथा तत्र स्वामिन एव दण्डः । पुत्रापराधेन पितेत्यादि दण्डपारुष्य-दण्डमातृकालिखितनारदवचनस्वरसात् । एवमिहापि प्रयोजक एव दण्ड्यो न तु प्रयोज्योऽपि न्यायसाम्यात् । दर्शितञ्चैव तदर्थं वृहस्पतिवचनं स्तेयदण्डमाकायाम्। इत्यमपराधानुसारेण दण्डव्यवस्थितौ ज्ञात्वा तु घातकमित्यादिव्यासवाक्ये रत्नाकरौयं बान्धवव्याख्यानं चिन्त्यम् । न हि साहसिकापरित्यागमात्र प्ररूढो दोषो येन तत्र बधः स्यात्। साहसानभिसन्धायिनोऽपि स्नेहादिनाऽपि तत्सम्भवात् । तस्माद् ये बान्धवाः साहसिनं न निवारयन्ति प्रत्युत साहसफलार्थितया स्वयमपराधयन्तः परं प्रेरयन्ति तेषां तत्तुल्ययोगक्षेमत्वादयं दण्डविधिः । अन्यथा धातकाश्चोपघातकाः स्वशरीरेण दण्ड्याः स्युरिति यमवचने स्वशरीरेण दण्डोऽप्यवापराधानुरूपो विवक्षित इति रत्नाकरोयमेव व्याख्यानं विरुध्यते । अथ नारदः अयुक्तं साहसं कृत्वा प्रत्यासत्तिं भजेत यः। ब्रूयात् स्वयं वा सदसि तस्याईविनयः स्मृतः ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy