SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुष्यमारणदण्डः । यथोक्तमिति यज्जातीयस्य प्राणिनो घातकतामधिकृत्य यो दण्ड उक्तस्तं मर्मघातिनमेव दापयेत् । यस्तु तबारम्भकृत् यश्च सहायस्तयोर्यथोक्तदण्डादर्द्धदण्डः । अथ प्रेरकदण्डमाह-याज्ञवल्क्यः, यः साहसं कारयति स दाप्यो विगुणं दमम् । तथैवमुक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥ कारयेद्दचसेति रत्नाकरः। तथा यश्चाहं दातेत्येवमुवा कारयति तस्य चतुर्गणो दण्डो वर्णोत्कर्षादित्यर्थइत्याह। कल्पतरावपि-अहं तुभ्यं दास्यामि धनं त्वमेवं कुर्वित्यभिधाय यः कारयति स चतुर्गुणं दाप्य इत्युक्तम् । तथान्येषामपि केषाञ्चिद् घातकत्वमतिदिशतिकात्यायनः आरम्भकृत् सहायश्च तथा मार्गानुदेशकः । आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥ युद्धोपदेशकश्चैव तदिनाशप्रवर्तकः। उपेक्षाकार्ययुक्तश्च दोष'वक्ताऽनुमोदकः ॥ अनिषेधा क्षमो यः स्यात् सर्वे ते कार्यकारिणः । यथाशक्त्या (त्य)नुरूपञ्च दण्डमेषां प्रकल्पयेत् ॥ सहायो व्यवहितः-अन्यस्य बध्यत्वात् । तद्दिनाशप्रवर्तको। युद्धोपदेशं विनैव विषदानादिना नाशप्रवर्तक इति रत्नाकरः। तदिनाशोपायोपदेशक इति कल्पतरुः। १ ग पुस्तके ---रक्तानुमोदकः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy