SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- लोकान् वीरवंदनार्थ गवतो विलोक्य धन्नोऽपि स्थस्थस्तत्र गत्वा श्रीवीरप्रभुं ननाम. वीरदेशनां च पनि श्रुत्वा प्रतिबुझेन धन्नेनोक्तं स्वामिन्नहं मातरमापृच्छ्य जवत्समीपे चारित्रं गृहिष्यामि. जगवतोक्तं य थासुख देवानुप्रियेति. अथ धन्नो गृहमागत्य मातरंप्रत्युक्तवान हे मातर्मयाद्य श्रीवीरो वंदितः श्रुता २५४ च तस्य धर्मदेशना, मात्रा प्रोक्तं त्वं धन्योऽसि. तवाभिधानमप्यद्य सफलीढतं. पुनर्धन्नेनोक्तं हे मातर्यदि तवाज्ञा भवेत्तर्हि अहं श्रीवीरप्रभोः पार्श्वे दीदामधिगनामि. तत् श्रुत्वा व्याकुलया मात्रो. क्तं हे पुत्र सर्वमेतघ्नं कस्य भोग्यता प्रयास्यति ? धनेनोक्तं हे मातर्धनमेतदसारमस्ति, यतो धन स्य चौरराजानिसमुनवजयोऽस्ति, पुनर्मात्रोक्तं हे पुत्र एतास्ते हात्रिंशस्प्रिया अपि क गमिष्यंति ? धनेनोक्तं हे मातरेताः सर्वा हरितारागवनिःस्नेहा ज्ञेयाः, संसारः सकलोऽप्ययमिंद्रजालसमोऽस्ति. एवं मातरं निजद्दात्रिंशद्भार्याश्च प्रतियोध्य तेन श्रीवीरप्रनुपाचे चारित्रं गृहीतं. अय तस्मिनेव दिने तेन श्रीवीराय प्रोक्तं हे स्वामिन्नहं यावजीवं षष्टंषष्टेनाचाम्लपारणकं विधास्ये. स्वामिनापि तस्या झा दत्ताः, अथैकदा पारणकदिने काकंदीनगर्यामागत्य स प्रथमप्रहरे स्वाध्यायं हितीयप्रहरे च ध्यानं विधाय श्रीवीरप्रभुमापृच्छ्य स्वयमाहारार्थ गतः, नीरसमाहारमादाय प्रभुपार्श्वे समागत्याऽलं । For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy