________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः १ खण्ड: ।
अयमेव यज्ञस्य सन्धिः सङ्घाता यत्र यस्मिन् देशे सोम मुद्धृत्य कर्त्तन्ते पशवोऽस्मित्रिति उत्करः वेदेरुत्तरपूर्वभागः । प्रकृबे किमायात मित्यत आह-यज्ञस्य सन्धिरुत्करः । तस्मात्तवोत्करे देशे तिष्ठ सुब्रह्मणो नाम ऋत्विक् सुब्रह्मण्यां सुब्रह्मणि साधुरिति निगदो नियत स्त्रीलिङ्गः ता मर्हति तदुद्देश्यां देवतामिन्द्ररूपामाह्वयतीत्यर्थः । श्राह्नानप्रकारं दर्शयति सुब्रह्मणप्रीमितिवदस्त्रीलिङ्ग मिवादानपूर्वकं त्रिराह त्रिः पठेत् । कुतइत्यत्राह हि शब्द हेतौ । यस्माद्देवाः त्रिषत्पा: चीणि मनोवाक्कायकर्माणि सन्त्यन्यसंवादौति येषां तेषां ते त्रिषत्या तम्मादतिप्रशस्तं विराटवान् कर्त्तव्यमित्यर्थः । हेतुवन्निगदोयमर्थवादः । तेन न्र' क्रियत इतिवत् न तु हेतुः । हेतुत्वे हेतुसापेक्षे च नैरपेक्ष्यलक्षणं न सम्भवेदिति निगदशेषमुपादायोपादाय व्याचिख्यापयामास प्रथमं तावदिन्द्रागच्छेति पद्दयं व्याख्यातुमुपादत्ते इन्द्रागच्छेति । प्राचष्टे । यदाहेन्द्रागच्छ त्ये तदा अस्य प्रत्यक्षं नाम तेनैवैनं तदाह्वयति इन्द्रागच्छेति सुब्रह्मणाय यदाह इदमेव अस्य इन्द्रस्य प्रत्यक्षं नाम तदा तेनैव एवं प्रकृतत्वा दन्वादेशविषयएनादेशः । एनमिन्द्रमाह्वयति पुनर्निगदशेषमाख्यातु मुपादत्ते हरिव श्रागच्छेति । हरिवः मतुवसोरुः सम्बुद्धौ छन्दसौति नकारस्य रुः। हरिच नाम तदुव्याचष्टे शुक्लकृष्ण. पचौ वा इन्द्रस्य हरी हरिताखानामादित्यात्मकत्वादिन्द्रस्य तयोर्हरित्वप्रतिपादनं हि यस्मात् ताभ्यां पूर्वपचापरपचाभ्यामिदं सर्वं जगजरति कालात्मकेन नियच्छतीति
For Private and Personal Use Only