SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 463. देवता-(१) अधिदैवतम् (२) अन्यदेवताः--[विग्रहपद्धतिभ्यां 'भधि' (१), 'अन्य' (४) शब्दो क्रमेण दृष्टव्यौ । 464. देश-होशे-हत् एव देशः, हृदः देशः वा, हृद्देशः, तस्मिन् । 465. देशकाल-अदेशकाले-(देशश्च कालश्च एतयोः समाहारः देशकालः), न देशकालः ___ अदेशकालः (अविहितदेशकालः), तस्मिन् । 466. देह-(१) आत्मपरदेहेषु । (२) देहभृत् । (३) देहमृता । (४) देहमृताम् । (५) देह समुद्भवान् ।-(१) [विग्रहपद्धत्यै 'आत्मन्' (८) शब्दो दृष्टव्यः] । (२-४) देहं बिभर्ति इति देहभृत् ; तेन देहभृता; 'देहभृताम्' इति षष्ठयाः बहुवचनम् । (५) देहात् समुद्भवः येषां ते देहसमुद्भवाः, तान् देहसमुद्भवान् । 467. देहान्तर-देहान्तरमाप्तिः-देहान्तरस्य (अन्यः देहः देहान्तरः, तस्य) प्राप्तिः । 468. देहिक-पौर्वदेहिकम्-पूर्वदेहेन (पूर्वो देहः पूर्वदेहः, तेन) यस्य सम्बन्धः तत् । 469. देहिन-सर्वदेहिनाम्-सर्वेषां देहिनाम् । 470. दोष-(१) निर्दोषम् । (२) सदोषम् ।-(१) निर्गतः दोषः यस्मात्, न विद्यते दोषः ___ यस्मिन् वा, तत् निर्दोषम् । (२) दोषेण सहितम् सदोषम् । 471. दौर्बल्य हृदयदौर्बल्यम्-हृदयस्य, हृदये स्थितं वा, दौर्बल्यम् (दूषितं बलं यस्य सः दुर्यलः, तस्य भावः) 472. हुति-दीप्तानलार्कद्युतिम्-(विग्रहपद्धत्यै 'दीप्तानलार्क' शब्दो दृष्टव्यः)। 473. द्यौ-यावापृथिव्योः-द्यौः पृथिवी च द्यावापृथिव्यौ, तयोः । 474. द्रव्य-द्रव्ययज्ञाः-द्रव्यमयाः (द्रव्याणि येषु ह्रयन्ते ते) यज्ञाः । 475. दुपद-द्रुपदपुत्रेण-द्रुपदस्य पुत्रः द्रुपदपुत्रः, तेन । 476. द्रोण-भीष्मद्रोणप्रमुखतः-भीष्मः द्रोणश्च येषु प्रमुखत्वेन स्थितौ (तान्कुरुन् पश्य)। 477. द्रोह-(१) अद्रोहः। (२) मित्रद्रोहे ।-(१) न द्रोहः (द्रोहस्य अभावः)। (२) मित्रस्य द्रोहः मित्रद्रोहः, तस्मिन् मित्रद्रोहे। 478. द्वन्द्व-(१) द्वन्द्वमोहेन । (२) द्वन्द्वातीतः। (३) निर्द्वन्द्वः।-(१) द्वन्द्वाजातः मोहः द्वन्द्वमोहः, तेन द्वन्द्वमोहेन। (२) [विग्रहपद्धत्यै ‘अतीत' (२) शब्दः दृष्टव्यः । (३) निर्गताः द्वन्द्वाः यस्मात् सः निर्द्वन्द्वः । 479. द्वन्धमोह-द्वन्द्वमोहनिर्मुक्ताः-द्वन्द्वमोहात् (द्वन्द्वाजातः मोहः द्वन्द्वमोहः, तस्मात् ) निर्मुक्ताः। 480. द्वार-(१) तमोद्वारैः । (२) नवद्वारे। (३) सर्वद्वाराणि । (४) सर्वद्वारेषु । (५) स्वर्ग ___ द्वारम् ।-(१) तमसः द्वाराणि तमोद्वाराणि, तैः तमोद्वारैः। (२) नवद्वाराणि यस्य, यस्मिन् वा, सः नवद्वारः, तस्मिन् नवद्वारे। (३-४) सर्वाणि द्वाराणि सर्व द्वाराणि; तेषु सर्वद्वारेषु । (५) स्वर्गस्य द्वारम् स्वर्गद्वारम् । 481. द्वि-द्विविधा-द्वे विधे यस्याः सा । 259 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy