SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgitā Word-Index Pt. II-A (a) 232. ऋषभ-(१) पुरुषर्षभ । (२) भरतर्षभ-(१) पुरुषेषु ऋषभः इव पुरुषर्षभः । संयो धने विसर्गलोपः। (२) भरतेषु (भरतवंशीयेषु) ऋषभः इव भरतर्षभः । संबोधने विसर्गलोपः। 233. ऋषि-(१) देवर्षिः। (२) देवर्षीणाम्। (३) महर्षयः । (४) महर्षीणाम् । (५) राजर्षयः ।-(१-२) देवेषु ऋषिः, देव इव ऋषिः वा, देवर्षिः, देवर्षीणाम् इति षष्ठीबहुवचनम् । ( ३-४) महान्तः ऋषयः महर्षयः; तेषां महर्षीणाम् । (५) राजसु ऋषयः, राजानः एव ऋषयः वा, राजर्षयः । 23 4. एक-(१) एकभक्तिः । (२) एकस्थम् । (३) एकाक्षरम् (४) एकाग्रम् । (५) एकाप्रेण । (६) एकान्तम् । (७) एकांशेन ।-(१) एकस्मिन् एव भक्तिः यस्य सः एकभक्तिः । (२) एकस्मिन् स्थितम् एकस्थम् । (३-७) [विग्रहपद्धतिभ्यः 'अक्षर' (२), 'अग्र' (१-२), 'अन्त' (९), 'अंश', शब्दाः क्रमेण दृष्टव्याः ।। 235. एकधा-अनेकधा-न एकधा (एकया रीत्या)। 236. एतद्-एतद्योनीनि-एताः योनयः येषां तानि । 237. एवम्-(१) एवरूपः । (२) एवंविधः ।-(१) एवं (एतादृशं) रूपं यस्य सः एवंरूपः । (२) एवं (एतादृशा) विधा यस्य सः एवंविधः । 238. ऐश्वयं-(१) भोगैश्वर्यगतिम् । (२) भोगैश्वर्यप्रसक्तानाम् ।-(१) भोगाः ऐश्वर्य च यस्यां सा भोगैश्वर्यगतिः, ताम् भोगैश्वर्यगतिम् । (२) भोगेषु ऐश्वर्ये च ये प्रसक्ताः ते भोगैश्वर्यप्रसक्ताः, तेषाम् भोगैश्वर्यप्रसक्तानाम् । ओ 239. ओजस्–उत्तमौजा:-[विग्रहपद्धत्यै 'उत्तम' (५) शब्दो दृष्टव्यः । 240. ओम्-ओंकार:--'ओम् ' इति रवः क्रियते यस्योचारणेन सः वर्णविशेषः । 241. औपम्य-आत्मौपम्येन-[विग्रहपद्धत्यै 'आत्मन् ' (१९) शब्दो दृष्टव्यः । 242. कटु-कटुम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः-(विग्रहपद्धत्यै 'अत्युष्ण' शब्दो दृष्टव्यः) । 243. कपि- कपिध्वजः-कपिः (कपिचिन्ह) ध्वजे यस्य सः। 244. कमलपत्र-कमलपत्राक्ष-(विग्रहपद्धत्यै 'अक्ष' शब्दो दृष्टव्यः)। 245. कमलासन-कमलासनस्थम्-कमलासने (कमलं एव आसनं कमलासनं, तस्मिन् ) स्थितः कमलासनस्थः, तम्। 246. कराल-(१) दंष्ट्राकरालानि। (२) बहुदंष्ट्राकरालम् ।-(१) दंष्ट्राभिः करालानि ___दंष्ट्राकरालानि । (२) बहुदंष्ट्राभिः (बहुभिः दंष्ट्राभिः) करालम् बहुदंष्ट्राकरालम् । 242 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy