________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
REASAल
AAAAAAAAC
काले अणाइनिहणे, जोणीगहणम्मि भीसणे इत्था भमिया भमिर्हिति चिरं,जीवा जिणवयणमलहंता ॥४९॥ __व्याख्या-कालेऽतीतानागतलक्षणे वर्तमानस्यैकसामयिकत्वात्स्वल्पत्सान्नात्र विवक्षित(सचं)कथंभूते काले ?-अनादिनिधनेऽनाद्य| पर्यवसिते । तथा पुनः कथंभूते ? "जोणीगहणम्मि भीसणे त्ति" चतुरशी तिलक्षयोनिग्रहणेतत्तदाश्रयणेनानवस्थानात् । अथवाकीदृशे संसारे ? योनिगहने-उपलक्षणादुत्पत्तिविपत्तिरोगशोकादिभिर्गहने विचित्रकर्मगत्याऽतिगुपिले जीवानां कर्मविपाककारणभूतत्वादीषणे -भयकारिणि तस्मिन्नधिकरुणभूते जीवा भ्रान्ता भ्रमिष्यन्ति चिरं-प्रभूतं कालं । कीदृशाः सन्तः ?-जिनवचनं-भगवद्वचनं हितोपदेशमलभमाना:-अप्राप्नुवन्तः । तथा क्वचिदित्यपि पाठः-"भमिया भमंति भमिहिति ति" तत्र त्रिकालाश्रयणेन धातोरर्थविशेषो ज्ञेय इति गाथाक्षरार्थः ॥४९॥ ___ अथ ग्रन्थकारः सम्यग्ज्ञानाद्धर्मफलं विधेयं चाविष्कुर्वन्ग्रन्थमुपसंहर्तुं शिक्षारूपं स्वनामगर्भितं च सूत्रं व्याख्यानयन्नाहता संपइ संपत्ते, मणुअत्ते दुल्लहे य सम्मत्ते । सिरिसंतिसूरिसिढे, करेह भो उज्जम धम्मे ॥ ५० ॥ || ___ व्याख्या-ताबद्धो भव्याः! साम्प्रतं मनुजत्वे दशभियान्तैर्दुर्लभे संप्राप्ते तत्रापि सम्यक्त्वेऽचिन्तितफलप्रदे चिन्तार नपाये। चकारात्सम्यग्ज्ञानचारित्र । संप्राप्तशब्दो मनुजस्वसम्यक्त्वयोरुभयत्र संबध्यते। ततश्चिन्तारत्नमिव प्राप्ते सम्यक्त्वे । यत्करणीयं तदाहधर्मे उद्यम कुरुत । किंविशिष्टे ? "सिरिसंतिम रिसिटेत्ति" सिरि ति श्रीः उपलक्षणात् ज्ञानश्रीः, तथा शमनं शान्तिः रागादीनामुपशमः, ताभ्यां सूरयः पूज्याः, गुणगुणिनोरभेदानीर्थकरा गणधरा वा, तैः शिष्टेऽर्थादुपदिष्टे । इयता ग्रन्थकृता स्वनामाप्याविष्कृतं ।
वाल
For Private and Personal Use Only