________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
जी. वि. ॥२६॥
FITSAAऊवारा
कायस्थितिमान । यदुक्त प्रज्ञापनायां स्वकायस्थित्यष्टादशे पदे-"पुढ विकाइए णं पुढविकायताए कालो केवच्चिरं होइ पुच्छा ? | गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असं खिज्जाओ उस्सप्पिणिओसप्पिणीओ कालो खेतो असंखेज्जालोगा"।इदमुक्तं भवतिअसङ्ख्थेयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारेण सर्वप्रदेशापहारे यावत्योऽसमथेयोत्सपिण्यवसर्पियो भवन्ति, एवं आउतेउवाउकाइया वि । चतुर्णा कायानां पृथगभिधानं । तथाऽनन्तकायिकास्ता एवोत्सर्पिण्योऽनन्ताः । यदुक्तमन्यत्राप्यागमे-“वणस्सइकाइयाणं पुच्छा ? गोयमा ! जहन्नेगं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं अणंताओ उस्सप्पिणीओसप्पिणीओ कालो खेत्तो अर्णता लोगा असंखेज्जा पोग्गलपरियट्टा आवलियाए असंखेज्जइभागे।" इयं स्थितिः सांव्यवहारिकानाश्रित्य द्रष्टव्या, असांव्यवहारिकजीवानां त्वनादिरवसे या, ततो न मरुदेव्यादिभिर्व्यभिचारः। तथा च क्षमाश्रमणः-तह काल(य)टिईकालादओ विसेसे पडुच्च फिर जीवे । नाणाइवणस्सइणो, जे संववहारबाहिरिया ॥ १॥ इति गाथार्थः ॥ ४०॥
१ पृथ्वीकायिकः पृथ्वीकायिकतया कालतः कियश्चिरं भवति पृच्छा ! गौतम ! जघन्येन अन्तर्मुहूर्तमुत्कर्षतः असंख्येया उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतः असंख्येया लोकाः ।
२ वनस्पतिकायिकानां पृथ्छा ! गौतम ! जघन्येनान्तमहत्तमुत्कर्षतोऽनन्त कालं अनन्ता उत्सर्पिण्यवसर्पिण्यः कालत: क्षेत्रतोऽनन्ता लोका असंख्येयाः पुद्गलपरावा आवलिकाया असंख्येयतमभागः
३ तथा कायस्थितिकालादयोऽपि विशेषान्प्रतीत्य बिल जीवान् । नानादिवनस्पतीन् ये संव्यवहारबाह्य : ।। १ ।।
ॐॐॐॐ
॥२६॥
For Private and Personal Use Only