SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatiran.org Acharya Shn Kailassagarsun Gyanmandir ALSAALAAAAAAAEE प्रक्षिपामि, येनायमूर्ध्वशोषं शुष्यन्नियत इति, तथापि लोकानुभावादेव सा काचिबुद्धिर्भूयोऽपि जायते, यथासंहरत्येव न, संहृत्य वा पुनरानयति । तथा येऽपि जङ्घाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद् गच्छति, तेऽपि तेभ्यो मनुष्यक्षेत्रमागत्यैव म्रियन्ते, तेनाधतृतीयद्वीपसमुद्रपरिमाणमेव मनुष्यक्षेत्र न शेषमिति । तच्चागामविष्कम्भाभ्यां पञ्चचत्वारिंशल्लक्षयोजनानामिति । अथ तद्वहिरपि द्विप्रकारा एव । के ते? एके समुद्रकपक्षिणः अपरे विततपक्षिणः। तत्र समुद्रकवत्संपुटीभूताः पक्षा एषां सन्तीति, वितता विस्तृताएवपक्षाः सन्त्येषामिति । तेषामाकाश एवोत्पत्तिविपत्ती श्रूयेते संप्रदायादिति ॥२२॥ इत्युक्तः खचारिणां विशेषः। अथ तिरश्चां सर्वसामान्यतया विशेष गाथान दर्शयन्नाह-"सव्वे जल" सर्वे तिर्यश्चो जलचरस्थलचरखचरादिभेदभिन्ना द्विधा-संमूर्छिमगर्भजभेदाभ्यां । तत्र संमूर्छनासंमूर्छिमाः मातृपितृनिरपेक्षतया, तथा गर्ने जाता यदि वा गर्भाज्जाता वेति गर्भजाः, ते तु पञ्चेन्द्रिया एवं तिर्यश्वोऽन्ये | एकद्वित्रिचतुरिन्द्रयास्तिर्यञ्चः संमूर्छिमा एव । अथैषां संमूर्छिमानुत्पत्तिविशेषं दर्शयति, यथा-एकेन्द्रियाः द्वीन्द्रिया स्वजातिमलनिरपेक्षतयोत्पद्यन्ते, त्रीन्द्रियास्तु स्वजातिपुरीषादिषुत्पद्यन्ते, चतुरिन्द्रियास्तु स्वभातिलालामलस्पर्शादिभ्य उत्पद्यन्ते । पञ्चेन्द्रियेषु मत्स्यादयो जलचरा द्विधाऽपि स्युः । स्थलचरेषु उर परिसर्पा भुजपरिसर्पाः प्रायशा द्विधा स्युः। चतुष्पदतिर्यञ्चः संमूर्छिमाः क्याप्युत्पद्यन्ते । गर्भजतिर्यछमनुष्याः प्रसिद्धा एव । संमूर्छिममनुष्याणामुत्पत्तिस्वरूपं पुरतः प्रादुष्करिष्यति । तथा खचरेषु संमूर्छिमाः शुकदहिकखञ्जरीटादयः क्षेत्रेष्वीतिकारणतयोत्पद्यन्ते, तज्जात्यखिलावयवत्वेन निष्पद्यन्ते । गर्भजखचरास्तु अण्डजास्ते प्रसिद्धा एव । इत्युक्तस्तिरवां विशेषःप्रस्तावान्मनुष्यजातिविशेष गाथार्धनाह-"कम्माकम्म०" कर्म-कृषिवाणिज्यादि मोक्षानुष्ठान-श्रुतचारित्ररूपं | वा तत्प्रधाना मह्यो-भूमयस्ताः पञ्चदश भवन्ति । तद्यथा-एकं भरतक्षेनं जम्बूद्वीपे, द्वे भरते धातकीखण्डे, द्वै भरते पुष्कराधे, एवं -ॐॐॐॐॐॐॐ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy