SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ज० टीका ॥१६॥ | विजाहरे ति । विद्याधराः खेचराः अभियोगा पारवश्यं, तत्र नियुक्ता आभियोगिकास्तेत्विह सम्प्रदायात् सौधर्मशानयोर्देवलोकयोः प्रेष्य प्रायाः सुरा ज्ञेयास्तेषां श्रेणयः प्रागुक्तस्वरूपाः वैताढये विजयाढयपर्वते एकैकस्मिन्निति गम्यते द्वे द्वे प्रत्येक ज्ञातव्येति शेषः। तथाहि एकैकस्मिन् वैताढथे एकस्यामेकस्यां दिशि एकैका विद्याधरश्रेणिरेकका चाभियोगिकदेवनिवासश्रेणिः समुदिताः पार्श्वद्वयेऽपि चतस्रश्चतस्रो भवन्ति । अपरार्दैन संख्यानयनाय करणमाह-इयेत्यादि इत्यनेन प्रकारेण चतुस्त्रिशचतुर्गुणा चतुर्भिर्गुणिता किं भवतीत्याह-श्रेणीनां षट्त्रिंशदधिकशतं भवति गतं श्रेणिद्वारम् ॥१९॥ अधुना गाथाद्धनाष्टमं विजयद्वारमाह-चकी जेयवाई विजयाई इत्थहंति चउतीसा। चक्कीत्ति । इत्यत्र जम्बूद्वीपेऽस्मिन् प्रकरणे वा विजयाश्चतुस्त्रिंशद् भवन्ति । किं विशिष्टा इत्याह-चक्कीत्यादि । चक्र | सहस्रयक्षाधिष्ठितः प्रहरणविशेषस्तदस्त्यस्येति चक्री सार्वभौमः यः षट्खण्डां भुवं भुनक्तीत्यर्थः तेन जेतव्या वशमानेतव्या इति । तथा चतुर्विंशदिति वदता सूत्रकारेण भरतैरावते क्षेत्रे अपि विजयत्वेनारोपिते उत्तमपुरुप निषेवितत्वान्न चैतदनागमिकं यदुक्तं समवायाङ्ग जंबुद्दीवे णं दीवे चउतीसं चक्वटि विजया पन्नता । तं जहा-बत्तीसं महाविदेहे भरहेरवइ ति । इह सूत्रे सविशेषणस्य विजयशब्दस्य नपुंसकता प्राकृतत्वान्न दोपायेति ॥ अथ नवमं हृदवारं गाथा पाश्चात्यानाहमहदह छप्पउमाई, कुरुसु दसगं ति सोलसगं ॥२०॥ ॥१६॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy