SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दोहिय परमवर वेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता एवं पश्चिमतोरणद्वारा निर्गता सिन्ध्यावर्त्तकूटादावृत्य विवृतमुखाकाराwarfare सिन्धुदेव निवास कुण्डमध्ये कृत्य तथैव जलधिं गता सिन्धुनदी || १४ || तोरतोरणाद् विनिर्गता गङ्गा द्विगुणमानपरिवारा स्त्रनामकुण्डे निपत्य शब्दापातिनं गव्युतद्वयेनाऽसंस्पृशंती ! हैमवतं क्षेत्र मध्ये कृत्यापरोदधिं गता रोहितांशा हिमवति सर्वरत्नमयान्येकादशकूटानि । तद्यथा क्षुल्ल १ हिमवद् २ भरत ३ इला ४ गङ्गा ५ श्री ६ रोहितांशा ७ सिंधु ८ सूरा ९ हेमवत १० वैश्रमणा ११ ख्यानि तेषां मूलविस्तार उच्चत्रं पञ्च योजन शतानि शिखर विस्तारस्तु तदर्द्धमानः प्रथमकूटे क्षुल्लनाम्नि सिद्धायतनं पञ्चाशद् योजनानि दीर्घं तदद्धे पृथुलं पट्त्रिंशद् योजनोच्छ्रायं, तस्मिन् त्रीणि द्वाराणि तेषामायामाऽष्टौ योजनानि तदर्द्ध विष्कम्भः । अष्टयोजनायाम विष्कम्भा तस्य मध्ये मणिपीठिका सा चत्वारि योजनानि पृथुला तदुपरिदेव च्छंद कस्तत्प्रमाणः आयामोच्छ्रायाभ्यां किञ्चिदधिकः तत्र प्रतिमा यथा वैतादद्याद्यकूटे प्रोक्ताः शेषेषु दशसु कूटेषु सार्द्धद्वापष्टि योजनोच्छ्रयाः साक्रोशक त्रिंशद् योजन विस्ताराः सिंहासनादियुताः प्रासादाः सन्ति || १५ | हिमवन्महाहिमवतोरन्तराले भरताच्चतुर्गुण विस्तारं पूर्वापरयोर्लवणजलधि प्राप्तं स्वनामदेवाधिष्ठायकं दशविधकल्पपादपं प्रभावो पढौ किताऽभिलपिताहारनेपथ्याभरण शयनीया वासादिलालितवपुभिर्युगलिकैर्विराजितं । हैमवतनामकं द्वितीय क्षेत्रमस्ति । तत्र ते युगल धर्मिणचतुः पष्टि पृष्ठ करण्डक भ्राजितमेकगव्यूतोच्चं चतुर्थभक्तान्ते कृतमनोभिलषिताऽऽहारं रोगजरापमृत्यु दुःख दौर्मनस्यादि रहितमेकपल्योपमायुर्देहं दधानाः पर्यन्ते एकोनाशीति दिनान्यपत्यानि पालयित्वा स्वस्य समस्थितिष्वल्पस्थितिपु वा देवेषूत्पद्यन्ते । अत्र च केचिदेतेषां चणक बदरामलक प्रमितमाहारमेकद्वित्रिणव्यूतप्रमाण शरीराणां क्रमेणापरे चाष्टादश For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy