________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जंबुद्दीवेपयत्थे त्ति । जम्बूवृक्षविशेषस्तेन उपलक्षितो द्वीपो जम्बूद्वीपः । उत्तरकुरुक्षेत्रे हि नीलवद् वर्षधर माल्य बद्धयस्त्रन्तर (2) शीतोदानदीनां बहुमध्यदेशभाग बहुविधवृक्षलक्षितो जम्बूवृक्षोऽस्ति तन्नाम्नाऽयं जम्बूद्वीपः । उक्तं च भगवत्यङ्गे—
सेकेणणं भंते । एवं बुच्चइ ? जंबुद्दीवे दीवे गोयमा ! जंबुद्दीवे णं दीवे मंदरस्स पव्त्रयस्त उत्तरेणं लवणस्स दाहिणेणं जाव तत्थ तत्थ बहवे जंबुरुक्खा जंबुवणा जाव उवसोहेमाणा चिद्वंति से तेणद्वेणं गोयमा एवं बुच्च जंबुद्दीवे दीवे । तत्र पदार्थाः क्षेत्र पर्वत नदी वनादयोऽभिधेय-वस्तुस्वरूपास्तान् किं करिष्यामीत्याह- वुच्छं त्ति वक्ष्यामि अभिधास्यामि इहाऽस्मदर्थक्रियायोगान सूत्रे ऽनुक्तेऽप्यहमित्यात्मनिर्देशो ज्ञातव्यः । जम्बूद्वीपपदार्थान् वक्ष्याम्यनेन त्वभिधेय निगदितं न भवतोऽतिशायि - ज्ञानमन्तरेण चक्षुरगोचरस्तावत् क्षेत्रस्वरूप प्ररूपणप्रवीणताऽस्तीत्यादि परप्रश्ननिराकरणायाह-सूत्त ति सूत्र- सिद्धान्तो गणधरादिरचितं जंबूद्वीप प्रज्ञप्ति क्षेत्रसमासादि तस्मात्, न स्वमत्यनुसारेण किमर्थमेतावान् प्रयासः क्रियत इत्याह- सपरहेउ ति स्व आत्मा परोऽन्यस्तयोनिमित्तं तदर्थमित्यर्थः एनेन सम्बन्धोऽभिहितः । स च स्वपरभेदाद् द्विधा । पुनरेकैकोऽनन्तरपरम्पर भेदाद् द्वेषा । तंत्रानन्तरकर्तर्भव्य सत्त्वानुग्रहः परस्य श्रोतुस्त्वेतदर्थावगमो जंबूद्वीप विचारज्ञानरूपः परम्परस्तु द्वयोरपि परमपदावाप्तिरिति ॥१॥ अभिधानं तूत्तरत्र गाथायां स्वयमेव सूत्रकारो भणिष्यति इदानीमभिधेयरूपदशद्वारपुरस्सरं कविः प्रकरणाभिधानमाह-खंडा १ जोयण २ वासा३ पव्वय४ कूडा य५ तित्थ६ सेढीओ७ ।
विजय८ द्दह९ सलिलाओ१० पिंडेसि होइ संघयणी ॥२॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir