SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ताश्च्युता जीवा मनुष्या भवन्ति, तेजोवायुभ्याम् च्युता जीवा मनुष्यत्वेन नोत्पद्यन्ते, न मनुष्या भवन्तीत्यर्थः । सूत्रपाठत्वात् अब क्यापि व्यस्तं प्रतिपादितं, अनुक्रमेण नोक्तमित्यर्थः । गत्यागतिद्वारे विवणिते ॥ ३९ ॥ ___अथ चतुर्विंशतितमं वेदवारमाहवेयतिय तिरिन रेसु, इत्थी पुरिसो य चउविहसुरेसु । थिरविगलनारएसु, नपुंसवेओ हवइ एगो ॥४०॥ ॥ (अव०) वेदत्रिकं तियङ्नरेषु, स्त्रीवेदः पुरुषवेदश्च, चतुर्विधसुरेषु, स्थिरविकलनारकेषु नपुंसमवेद एक एव भवति । अथ संक्षिप्तसङ्ग्रहणीगाथाद्वयानुक्तमपि सोपयोगित्वात्किचिज्जीवाल्पबहुत्वं दर्श्यते ॥४०॥ ___टीका-वेअतियेति तिर्यग्नरेषु पुरुषस्त्रीनपुंसकलक्षणा वेदा भवन्ति । तथा चतुर्विधसुरेषु स्त्रीपुरुषलक्षणौ वेदौ भवतः । च पुनः स्थावरविकलेन्द्रियनैरयिकेष्वेको नपुंसकलक्षणो वेदो भवति । अत्र चकारः समुच्चयार्थः। तत्र येन स्वियं प्रति अभिलाषः स्यात् स नरवेदः तृणदाहतुल्यः । येन पुरुषं प्रति अभिलापः स्यात् स स्त्रीवेदः करीपदाहतुल्यः। येन पुंस्त्रीविषये अभिलाषः स्यात् स नपुंसकवेदः नगरदाहतुल्यः । वेदद्वारं प्ररूपितम् ॥४०॥ अथ गाथाद्वयेनाल्पबहुत्वद्वारमाहपज्जमणु वायरग्गी, वेमाणियभवणनिरयवंतरिया । जोइस चउ पणतिरिआ, बेइंदि तेइंदि भूआऊ ॥४१॥ F For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy