SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir CAUCC कारणात् मोक्षोऽस्त्येव । (न) पुनः आकाशकुसुमस्य एकपदं नाम नास्ति किंतु द्विपदं नामास्ति । यत् यत् वस्तु द्विपदनाम वाच्यंभवति तत् तत् एकांतेन विद्यमानं न भवति । किंतु किंचित् गोश्रृंगमहिषश्रृंगादिवत् विद्यमानं किंचित् पुनः खरश्रृंग -अश्वश्रंग-आकाशकुसुमादिवत् अविद्यमानं । मोक्षइति पदं पुनः एकपदत्वात् अस्त्येव । अनेन अनुमानप्रमाणेन मोक्षो विद्यमानोऽस्ति इति सिद्धयते । तत्र मोक्षस्य सत्पदरूपस्य प्ररूपणा विचारणा गत्यादिमार्गणाद्वारा एव विधीयते ॥३३॥ तां सत्पदप्ररूपणां एतास्वेव प्ररूपयति । | नरगइ पर्णिदि तस भव, सन्नि अहक्खाय खइअ सम्मत्ते । मुक्खोणाहारकेवल, देसणनाणे न सेसेसु॥३४॥ नरगइ इति-गतिः नरकगतिः तिर्यम्गतिः मनुष्यगतिः देवगतिः तत्र मनुष्यगतौ मोक्षो भवति न शेषगतित्रयेऽपि ॥१॥ इंद्रियमार्गणास्थानं पंचधा एकेंद्रियादिभेदात् ज्ञातव्यं यत्र पंचेंद्रियद्वारे मोक्षो भवति एकेंद्रियादि चतुष्टये न भवति ।। | कायमार्गणास्थानं पइविधं पृथ्वीकाय-अप्काय-तेजःकाय-वायुकाय-वनस्पतिकाय-त्रसकायभेदै ज्ञातव्यं । तत्र त्रसकायवर्तिनो जीवा योग्यतायां मोक्षं यांति शेषपंचकायस्था जीवा मोक्षं न यांति ॥३॥ भवसिद्धिकमार्गणा स्थानं द्विधा ।।। भवसिद्धिका अभवसिद्धिकाश्च । तत्र भवसिद्धिकाः भव्या एतद्विपरीता अभवसिद्धिकाः। तत्र भवसिद्धिका मोक्षं यांति अभवसिद्धिकास्तु न सिद्धयति । संज्ञिमार्गणा स्थानं द्विधा संजिनः असंज्ञिनश्च ५। तत्र संज्ञिनां मोक्षो भवति न असंज्ञिनां । चारित्रमार्गणास्थानं पंचधा-सामायिकचारित्रं १ छेदोपस्थापनीयं २ परिहारविशुद्धिकं ३ सूक्ष्मसंपरायं ४ यथाख्यातचारित्रं ५ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy