________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सांख्या निरीश्वराः केचित् केचिदीश्वरदेवता । सर्वेषामपि तेषां तत्त्वानां पञ्चविशतिः ॥ १ ॥
इति ज्ञात्वा भवदभिमतदेवाशिषः पठन्तः स्मः । यथारुचि हि श्रोतुः पुरः पठनीयं समयज्ञैः । " वाक्पतिराह-यथप्येवं तथापि मुमुक्षवो वयमासन्ननिधनं ज्ञात्वा इह परमब्रह्म ध्यातुमायाताः स्मः । " बप्प भयो जगदुः किं तर्हि रुद्रादयो मुक्तिदातारो न भवन्तीति मनुध्वे । " वाक्पतिः प्राह-" एवं संभाव्यते । " बप्प भयो बभाषिरे - " तर्हि यो मुक्तिदानसमस्तं शृणु । पठामि । स जिन एव ।
मदेन मानेन मनोभवेन क्रोधेन लोभेन स संमदेन ।
पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ १ ॥
जं दिट्टी करुणातरंगियपुडा एयस्स सोमं मुहं आयारो पसमायरो परियरो संतो पसन्ना तणू । तं मन्ने जरजम्ममच्चुहरणो देवाहिदेवो इमो देवाणं अवराण दीसह जओ नेयं सरूवं जए ॥ २ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
इत्यादि बहु पेठे । " वापतिः प्राह - " स जिनः क्वास्ते । " सूरि :-" स्वरूपतो मुक्तौ मूर्तितस्तु जिनायतने । " वाक्पतिर्ब्रते -"प्रभो ! दर्शय तम् ।" प्रभुरपि आमनरेन्द्रकारिते प्रासादे तं निनाय । स्वयं प्रतिष्ठितवरं श्री पार्श्वनाथमदीदृशत् । शान्तं कान्तं निरञ्जनं रूपं दृष्टवा प्रबुद्धो बभाण - " अयं निरञ्जनो देव आका
For Private And Personal