________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धः
पतुर्विशति । ॥३५॥
|
एतद्बाचयित्वा सोस्कण्ठं नृपः सारकतिपयपुरुषवृत्तोऽचालीत् । गोदावरीतीरग्राममेकमगमत् । तत्र खण्डदेवकुले वासमकार्षीत् । देवकुलाधिष्ठात्री व्यन्तरी सौभाग्यमाहिता गङ्गेच भरतं तं भेजे । प्रभाते |करभमारुह्य तां देवीमापुच्छ्य प्रभुपादान्तं प्राप | गाथाद्धं पपाठ
अन्जवि सा सुमरिजइ को नेहो एगराईए । सूरीन्द्रः प्राह
गोलानईयतीरे सुन्नउले जंसि वीसमिओ ॥ १॥ इति । अन्योऽन्यं गाढमालिलिङ्गतुरुभौ । तत आम आह स्मअंध में सफला प्रीतिरद्य मे सफला रतिः । अद्य मे सफलं जन्म अद्य मे सफलं कुलम् ॥१॥
रात्री इष्टगोष्टी ववृते मधुमधुरा। ततः प्रभाते सरिर्धर्मनृपास्थानमगमत् । आमनृपोऽपि प्रधानः स्वः। पुरुषैः सह स्थगीधरो भूत्वाऽऽगच्छत् । 'आम आवउ' इति ब्रुवाणैः सूरिभिर्धर्माय आमस्य विशिष्टपुरुषा दर्शिताः। "एते आमनृपनराः किलास्मानाहातुमायाताः" इति । धर्मेण राज्ञा पृष्टं विशिष्टजनपाचे-"भोः 11. आमप्रधाननराः ! स भवतां स्वामी कीदृशरूपः।" तैर्निगदितम्-“ यादृगयं स्थगीधरस्तादृगस्ति ।" प्रथम
For Private And Personal