SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Sy इति । स हि भगवान् षड्विकृतित्यागी सिद्धसारखतो गगनगमनशक्त्या विविधतीर्थवन्दनशक्तियुक्तस्तस्य कियदेतत् । स चूतकारस्तत्पादद्वयं गोपगिरौ श्री आमाग्रे निवेदितवान् । राजा दध्वान-"अहो!। सुघटितत्वमर्थस्य ।" तं पप्रच्छ-"केन क्वेयं पूरिता समस्या।" द्यूतकृदाह-"लक्षणावत्यां बप्पमटिमरिणा इति ।” तस्योचितं दानं चक्रे । अन्यदा राजा नगर्या बहिर्ययौ। न्यग्रोधद्रमाधः पान्थं मृतं ददर्श। शाखायां| लम्बमानं करपत्रकमकं विपुषां व्यूहं सवन्तं गाथाद्धं च विशिष्टग्राणि लिखितं कठिन्याऽपश्यत् । तइया मह निग्गमणे पियाइ घोरं सुएहिं जं रुण्णं । तदपि समस्यापाद्वयं राज्ञा कविभ्यः कथितम् । न केनापि सुष्टु पूरितम् । राजा चिन्तयति स्म वेश्यानामिव विद्यानां मुखं कैः कैनै चुम्वितम् । हृदयग्राहिणस्तेषां द्वित्रा सन्ति न सन्ति वा ॥१॥ ___ हृदयग्राही स एव मम मित्रं सूरिवरः। स एव दौरोदरिको नृपेणोपसूरि प्रैषि । सूरिणाऽक्षिनिमेषमात्रेण पूरिता समस्या करवत्तयबिंदुअनिवडणेण तं मझ संभरिय ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy