SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir षण्मासान्तनिशायां स स्वं निशान्तमुपेयिवान् । तर्कपुस्तकमाकृष्य कोशात्किञ्चिदवाचयत् ॥४९॥ । चिन्ताचक्रहते चित्ते नास्तान्ध मीश्वरः । बौधः स चिन्तयामास प्रातस्तेजोवधो मम ॥५०॥ श्वेताम्बरस्फुलिङ्गस्य किश्चिदन्यदहो! महः । निर्वासयिष्यन्तेऽनी हा! बौद्धाः साम्राज्यशालिमः॥५१॥ धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् । परहस्तगतां भार्या मित्रं चापदि संस्थितम् ॥५२॥ इति दुःखौघसंघद्वाद्विदद्रे तस्य हृत्क्षणात् । नृपाहानं समायातं प्रातस्तस्य व्रतं द्रतम् ॥५३॥ नोदघाट्यन्ति तच्छिष्या गृहद्वारं वराककाः । मन्दो गुरुनाथ भूपसभामेतेति भाषिणः॥५४॥ तद्गत्वा तत्र तैरुक्तं श्रुत्वा तन्मल्ल उल्लसन् । अवोचच्च शिलादित्यं मृतोऽसौ शाक्यराट् शुषा ॥१५॥ स्वयं गत्वा शिलादित्यस्तं तथास्थमलोकत । बौद्धान्यावासयदेशाधिक प्रतिष्ठाच्युतं नरम् ॥५६॥ मल्लवादिनमाचार्य कृत्वा वागीश्वरं गुरुम् । विदेशेभ्यो जैनमुनीन्सर्वानाजूहवन्नृपः॥७॥ शत्रुञ्जये जिनाधीशं भवपञ्जरभञ्जनम् । कृत्वा श्वेताम्बरायत्तं यात्रा प्रावर्तयन्नृपः॥५८॥ कालान्तरे तत्र पुरे रङ्को नामाभवद्वणिक् । तस्य कापट्टिको हढे न्यासीचके महारसम् ॥ ५९॥ रसेन तेन स्पृष्टस्य लोहस्य तपनीयताम् । स दृष्ट्वा हसदनपरावर्त चकार च ॥ ६॥ वञ्चयित्वा कार्पटिकं रङ्कः सोऽभून्महाधनः। तत्पुच्या राजपुत्र्याश्च संख्यमासीत्परस्परम् ॥ ६१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy