SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ।। १९ ।। www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रावकाः पौषधशालायां प्रवेशमेव न लभन्ते । दगपाणं पुष्फफलं अणेसणिज्जं गिहत्थकिचाई । अजया पडिसेवंती जइवेसविडंबगा नवरं ॥ १ ॥ इति गाथा समाचर्यते । तदपयशः श्रुत्वा वृद्धवादी कृपया तं निस्तारयितुमेकाकीभूय गच्छं वृषभेषु न्यस्य तंत्र गतः । द्वारे स्थितः सूरीणामग्रे कथापयति द्वास्थैः । यथा - " वादी एको ज्यायानायातोऽस्ति । " मध्ये सूरिभिराहृतः । पुर उपवेशितः । वस्त्रावगुण्ठितसर्वकायो बृद्धवादी वदति व्याख्याहि अणहुल्लियफुल्लमतोडहि मा रोवा मोडहिं । मणकुसुमेहिं अचि निरंजणु हिंडइ वणेण वणु ॥ १ ॥ सिद्धसेनश्चिन्तयन्नपि न वेत्त्यर्थम् । ततो ध्यायति - " किमेते मे गुरवो वृद्धवादिनः ? " येषां भणितिमहमपि व्याख्यातुं न शक्नोमि । पुनः पुनः पश्यता उपलक्षिता गुरवः । पदयोः प्रणम्य क्षामिताः पयार्थ पृष्टाः । तेऽथ व्याचक्षिरे । यथा- 'अणहुल्लियफुल्ल' प्राकृतस्यानन्तत्वात् अप्राप्तफलानि पुष्पाणि मा त्रोटय । को भावः ? योगः कल्पद्रुमः । कथं ? यस्मिन्मूलं यमनियमाः, ध्यानं प्रकाण्डप्रायं, स्कन्धश्रीः समता, कवित्व| वक्तृत्वयशःप्रतापमारणस्तम्भनोच्चाटनवशीकरणादिसामर्थ्यानि पुष्पाणि, केवलज्ञानं फलम् । अद्यापि योगकल्पद्रुमस्य पुष्पाण्युङ्गतानि सन्ति तत्केवलफलेन तुः पुरः फलिष्यन्ति । तान्यप्राप्तफलान्येव किमिति For Private And Personal 191555 प्रवन्धः ६ ॥ १९ ॥
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy