SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandit प्रबन्धः पतर्विशति ॥१८॥ निर्लोभत्वात् । राज्ञापि न जगृहे कल्पितत्वात् । तत आचार्यानुशया सहपुरुषैर्जीर्णोद्धारे व्ययिता । राजब| हिकायां त्वेवं लिखितम् " धर्मलाभ इति भोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटि धराधिपः ॥ १॥" श्रीविक्रमाने अवसरे तेनैव भगवता भणितम्पुन्ने वाससहस्से सयंमि बरिसाण नवनवइ कलिए। होही कुमरनरिन्दो तुह विकमराय सारिच्छो ॥१॥ अन्यदा सिद्धसेनश्चित्रकूटमटति स्म । तत्र चिरंतनचैत्यस्तम्भमेकं महान्तं दृष्ट्वा कश्चिदमाक्षीत-"कोऽयं स्तम्भो महान् ? किंमयः ?" तेनोक्तम्-"पूर्वाचार्यैरिह रहस्यविद्यापुस्तकानि न्यस्तानि सन्ति । स्तम्भस्तु | तत्तदोषधद्रव्यमयः । जलादिभिरभेद्यो वज्रवत् ।" तद्वचनं श्रुत्या सिद्धसेनस्तस्य स्तम्भस्य गन्धं गृहीत्वा । प्रत्यौषधरसैस्तमाच्छोटयामास । तैः स प्रातरम्बुजवद्विचकास । मध्यात्पतिताः पुस्तकाः। तत्रैकं पुस्तक छोटयित्वा वाचयनाथपत्र एव द्वे विये लभते स्म। एका सर्षपविद्या, अपरा हेमविद्या। तत्र सर्षपविद्या सायथोत्पन्ने कार्य मान्त्रिको यावन्तः सर्षपान जलाशये क्षिपति तावन्तोऽश्ववारा द्विचत्वारिंशदुपकरणसहिता निःसरन्ति। ततः परवलं भज्यते । सुभटाः कार्यसिद्धरनन्तरमदृशीभवन्ति । हेमविद्या पुनरक्लेशेन शुद्धहम ॥१८॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy