SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ततोऽधिकं जिनधर्म रेमे । अथैकदा द्वायपि भ्रातरौ राणश्रीवीरधवलं व्यजिज्ञपताम्-" देव ! देवपादैरियं गुर्जरधरा साधिता । राष्ट्रान्तराणि करदानि कृतानि । यद्यादेशः स्यात् तदा राज्याभिषेकोत्सवः | क्रियते ।"राणकेनोक्तम्-मन्त्रिणी ऋजू भक्तिजडौ युवां । ___ अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः । अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ १॥ ततो राणकमात्रत्वमेवास्तु । इत्युक्त्वा व्यसृजत्तौ । एकदा मन्त्रिभ्यां श्रीसोमेश्वरादिकविभ्यो विपुला वृत्तिः कृता भूम्यादिदानैः । ततः पठितं सोमेश्वरेण सूत्रे वृत्तिः कृता पूर्व दुर्गसिंहन धीमता । विसूत्रे तु कृताऽस्माकं वस्तुपालेन मन्त्रिणा ॥१॥ श्रीवीरधवलोऽपि सेवकान् सुष्टु पदवीमारोपयन् जगत्प्रियोऽभूत् । किमुच्यते तस्य । पश्यत पश्यत श्रीवीरधवलो ग्रीष्मे चन्द्रशालायां सुसोस्ति । वण्ठश्चरणो चम्पयत्येकः । राणकः पटीपिहितवदनो जाग्रदपि वण्ठेन सुप्तो मेने । ततश्चरणाङ्गलिस्था रत्नाङ्कामुद्रा जगृहे । मुखे च चिक्षिपे। राणकेन किमपि नोक्तम् । उत्थितो राणः । भाण्डागारिकपााद् गृहीत्वान्या मुद्रा तागेव पादाङ्गलौ स्थापिता। द्वितीयदिने | पुनः राणकस्तत्रैव शालायां प्रसुप्तः। वण्श्चरणौ स एव चम्पयति । राणस्तथैव पदीस्थगितवदनोऽस्ति । For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy