SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandit इत्येवं वदतस्तान् सर्वान् युक्तिभिर्याढं निषेध्य स्वयं मत्तुं स्थितः। सो वहन् कृतः। कालपुरुषेणोपद्रवों न कृतः । गते तु सङ्घ रत्नःश्रीनमिपरायणः स्थिरः तस्थौ । पउमिणि ग्रे गता । परत्र स्थित्वा कायोत्सर्गमधात् । कोमलो पि तथैव । कालपुरुषेण रत्नो गिरिगुहायामेकस्यां क्षिप्तः । द्वारि शिलां दत्त्वा पुच्छं आच्छोटयति। सिंहनादैः खं बधिरयति। तथापि रत्नो न बिभेति । हृदि स्थितजिनरागः। अत्रान्तरे कूष्माण्डी वन्दितुं रैवतशिखर क्षेत्रपतयः सप्त कालमेघ १ मेघनाद २ गिरिविदारण ३ कपाट ४ सिंहनाद ५ खोटिक ६| रैवत ७ नामानो मिलिताः। ते देवीं वन्दित्वा ऊचु:-" देवि! कापि पर्वतो धडहडायते । ईदृशं क्वापि पूर्व न जातम् । याहगधुना वर्तते । ततः पश्य किमिदं ? । कापि पुरुषो महानेक उपद्रयमाणोऽस्ति केनापि रेण ।" अम्बया ज्ञातं ज्ञानेन । तैः सह सत्र गता । पउमिणिकोमलौ दृष्टौ तथा कायोत्सर्गस्थौ । कृपाभक्ती जाते । गुहाद्वारं गत्वा स आक्षिप्तः क्रूरः । रे। किमिदं करोषि । युध्यस्व चेत्समर्थोऽसि । रत्वं रक्षामो वयं क्षेत्रपालाः। अहं अम्बा जगदम्बा। तथोक्तेघुघुरितः सः। युद्धं ववृते। यावता सोऽम्बया पादे धृतः शिरः परितो भ्रमयित्वा स्फालयिष्यते ग्रावण्युग्रे तावत्प्रत्यक्षो दिव्यमूर्तिः पुरतो नरो ददृशे। रत्नश्च पुरः दिव्याभरणाङ्गरागी सप्रियः सपुत्रः सुखी । उचे च स-दिव्याङ्ग:-" अम्बे ! क्षेत्रपाः श्रीरत्नश्च शृणुत । यदा रैवतमहिमानं गुरुजगी । तदाऽनेन रत्नेन प्रतिज्ञा कृता । मया प्राणव्ययेनापि नेमिर्वन्दनीय एवेति । तदाऽहं For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy