SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रवन्धः तया आनायितः शुकः । सा रञ्जिता तेन, यथा राज्ञा पूर्वम् । एकदा शुकेन राज्ञीलेहपरीक्षार्थ गृहगोधिकादेहं गतम् । राश्या तद्वियोगेन काष्ठभक्षणं कर्तुमारब्धम् । तृपजीवेन शुको जीवापितः । सा राजी व्याकृत्ता। शुकेन सर्वोऽपि वृत्तान्तो राश्यै कथितः । राश्या कुम्भकारस्यावर्जना कृता । तेन कुम्भकारजीवेन तुष्टेन विद्याप्रदर्शनाय मृतबोकटदेहे स्वजीवः क्षिसः। नृपरे निजदेहं गतः। अजो भयात्कम्पते । राज्ञा उक्त:-"न भेत्तव्यम् । नाहं त्वत्समो भावी । सकृपोऽसि । त्वं मुखं जीव । चर । पिव।" ततः कथं तेन समो भविष्यति ॥३॥" चतुथ्योतम्-"एकदा विक्रमार्केणोत्तमं सौधं कारितम् । राजा तत्र गतः विलोकनाय । तत्र चेटकयुग्ममुपविष्टमस्ति । चेटकेनोक्तम्-"सुष्टु सौधमस्ति ।" चेटिकयोक्तम्-"यादृशं खीराज्ये लीलादेव्या बाथरहमस्ति तादृशमेतत् ।" राज्ञा तच्छुतम् । तद्गमनौत्सुक्यं जातम् । परं स्थानं तु न वेत्ति । तेन सचिन्तो जातामहमानो सपाशयं ज्ञात्वा तत्स्थानकज्ञानाय चचाल तन्मार्गे लवणसमुद्रं ततो धूलीसमुद्रमुत्तीर्य सत्र रात्री मदनायतने स्थितः। निशीथे इयधारवसंसूचितं दिव्यालङ्कारभूषितं दिव्यस्त्रीवृन्दमागमत् । सत्स्वामिस्या कामः पूजितः । व्यावृत्तमानानां तासां अश्वपुच्छे लगित्वा तन्न गतः । दासीभिदृष्टः स्वामिनी ८७॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy