SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति | प्रबन्धः ७०॥ चमत्कृतो भूपाल: 1 ग्रासद्वैगुण्यं कृतम् । कालान्तरेऽमरेण कोष्ठागारिकपद्मसिरापद्मानन्दाऽऽख्य शास्त्रं रपितम् । एवं कविताकल्लोलसाम्राज्यं प्रतिदिनं ॥ ॥ इति अमरचन्द्रकविप्रबन्धः।। (१४) अथ मदनकीर्तिप्रबन्धःउजयिन्यां विशालकीर्तिदिगम्बरः। तच्छिष्यो मदनकीर्तिः। स पूर्वपश्चिमोत्तरासु तिसृषु दिक्ष वादिनः सर्वान् घिजित्ल 'महाप्रामाणिकचूडामणिः' इति विरुदमुपायं स्वगुर्वलतामुज्जयिनीमागात् । गुरूनवन्दिष्ट । पूर्वमपि जनपरम्पराश्रुततत्कीर्तिः स मदनकीर्तिः भूयिष्टमश्लाघिष्ट । सोऽपि प्रामोदिष्ट । | दिनकतिपयानन्तरं च गुरूं न्यगादीत्-" भगवन् ! दाक्षिण्यात्यान् वादिनो विजेतुमीहे । तत्र गच्छामि। अनुज्ञा दीयताम् ।” गुरुणोक्तम्-"वत्स ! दक्षिणां मागाः । स हि भोगनिधिर्देशः । को नाम तत्र गतो दर्शन्यपि न तपसो भ्रश्येत् ।” तद्गुरुवचनं विलय विद्यामदाध्मातो जालकुद्दालनिश्रेण्यादिभिः प्रभूतैश्च | शिष्यैः परिकरितो महाराष्ट्रादिवादिनो सृद्नन् कर्णाटदेशमाप । तत्र बिजयपुरे कुन्तिभोज नाम राजानं स्वयं विद्याविदं विद्वात्मियं सदसि निषण्णं स द्वास्थनिवेदितो ददर्श तमुपश्लोकयामास ७.2 For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy