________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रवन्धः
चतुर्विंशति
तत्पत्नी चटिला सगर्माहता।" राज्ञोक्तम्-" त्या न सुष्टु कृतम् । हत्यादयं गृहीतम् । अद्रष्टव्यमुखस्त्वं ममान्तिकं त्यज | " निष्कासितः । लोकनिन्दोच्छलिता। तपोवनं गत्वा तपस्विदीक्षा जगृहे । गाढं तपस्तप्त्वा मृत्वा स वाणिज्यारको जयसिंहदेवो जातः। जयताकस्तु स्थानभ्रंशं दृष्ट्वा देशान्तरं गतः। अटवी गच्छतस्तस्य संडरगच्छस्वामिनः श्रीयशोभद्रसूरयो मिलिताः। सूरिभिरभिहितम्-"यद् भवतोऽधुना सर्व गतम् , किमर्थमन्यायं करोषि।" जयताकेनोक्तम्-"वुभुक्षितः किं न करोति पापम् । ततः सर्वमकृत्यं करोमि। "सूरिभिरतम्-"अधुना शम्बलादिकं भोजनादि कारयिष्यते। अनयं मा कृथाः।" भोजनवस्त्रादिकं कस्यापि पार्थादापितम् । साथै हि तदादेशकारिणो यहवः चौर्यनियमं यावजीवं ग्राहिताः। स| तिलङ्गेषु उरङ्गल पुरे ओढरवाणिज्यारकगृहे भोजनादिवृत्या भृत्योऽस्थात् । तत्र विहरन यशोभद्रसूरयः प्राप्ताः। चतुप्पथे मिलिता जयताकस्य । साय कैरुपाश्रयो दत्तः । जयताकेन तत्र गत्वा हृदयशुद्धया पुनश्चौर्यनियमो गृहीतः, अन्येऽपि बहवो नियमा झोताः। उत्सरे ओढरगृहं गतः। ओढरेण पृष्टम्-"तव क्व वेला लग्ना। स्वांविना कार्याणि सीदन्ति” तेनोक्तम्-"मम गुरवः समागताः सन्ति । तत्क्रमकमलवन्दनानन्दमन्वभूवम् । नियमानग्रहीषम् । ओढरेणापि समुत्पन्नश्रद्धेन व्याकृतम्-" वयमपि गुरुन् वन्दियामहे " जयताकेनोक्तम्"पुण्यात्पुण्यमिदम् ।” ओढरस्तत्र गतः । गुरुन् वन्दित्वा न्यषदत् । देशना श्रुता । तत्त्वज्ञानमुन्मीलितम् ।
।५९ ॥
For Private And Personal