SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वामोsप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात् न स्पृशेत करेण वेद्यतिपतेः श्रीहेमचन्द्रप्रभोः ॥ २ ॥ Acharya Shri Kailashsagarsuri Gyanmandir मेरुमहाध्वजावारितान्नदानयाचकसत्काराः प्रवर्त्तन्ते । मालोद्वहनप्रस्तावे तादृशि संघ राज्ञि च निषण्णे महं वाग्भटः प्रथमं लक्षचतुष्कमवदत् । प्रच्छन्नधार्मिकः कश्चित्कथापयति-" लक्षाष्टौ ।” एवमन्योऽन्येष्वीश्वरेषु वर्द्धयत्सु कश्चित्सपादकोटीं चकार । राजाऽपि चमुच्चकार । उवाच च -" उत्थाप्यतां स यो गृह्णाति । " | उत्थितः सः । यावद् दृश्यते तावद्वादरमलिनवसनो वणिगुरूपः । राज्ञा वाग्भटो भाषितः- “द्रम्मसुस्थंकृत्वा देहि । " वाग्भटो वणिजा सहोत्थाय पादुकान्तिकं गत्वा द्रम्मसुस्थं प्रपच्छ तम् । वणिजा सपादकोटिमूल्यं माणिक्यं दर्शितम् । मन्त्रिणा पृष्टम् - " 'कुत इदं ते ।" वणिगाहू-" महूअकवास्तव्यो मत्पिता हंसाख्यः सौराष्ट्रिकः प्राग्वाटः । अहं तद्भूर्ज़गड़ः । माता मे धारुः । मम पित्रा निधनसमयेऽहं भाषितः - " वत्स ! चिरं कृता प्रवहणयात्राः फलिताश्च । मेलितं धनम् । तेन च क्रीतं प्रत्येकं सपादकोटिमूल्यं माणिक्यपञ्चकम् । अधुना प्रभुवृषभचरणौ शरणं मे अनशनं प्रतिपन्नम् । क्षामिताः सर्वे जीवाः । एकं माणिक्यं श्रीऋषभाय, एकं श्रीनेमिनाथाय, एकं श्रीचन्द्रप्रभाय दद्याः माणिक्यद्वयमात्मनोऽन्तर्धनं दध्याः । बाह्यधनमपि प्रचुरतरमास्ते । " इदानीं माता मया सहानीता कपर्दिभवने मुक्ताऽस्ति । तां जरन्तीमा For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy