SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BRRR चरक-संहिता। ( विधिकिसिम सिन्धुवारस्य मूलञ्च श्वेता च गिरिकर्णिका । पानं दीकरैर्दष्टे नस्यं समधु पाकलम् ॥ मञ्जिष्ठामधुयष्टाह्वा-जीवकर्षभकाः सिता। काश्मय॑वटशङ्गानि पानं मण्डलिनां विषे॥ व्योषं सातिविषं कुष्ठं गृहधूमो हरेणुका । कटका तगरं क्षौद्र हन्ति राजोमतां विषम् ॥ गृहधूमं हरिद्र द्वे समूलं तण्डुलीयकम् । अपि वासुकिना दष्टः पिबेद दधिघृताप्लुतम् ॥ क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः । मुक्तालेपो वरः शोथ-दाहतोदवरापहः ॥५२॥ मतस्य पलं कुष्ठस्य पलमिति नतकुष्ठाभ्यां द्विपलं घृतस्य द्विपलं लौद्रस्य द्विपलमिति घृतक्षौद्रचतुष्पलमिति चतुष्कं पिबेत्। एतत् तक्षकदष्टानामपि अन्यसपैदष्टानाञ्च सुखपदमेतत् पानम् ॥५०॥५१॥ गङ्गाधरः-सिन्धुवारेत्यादि। सिन्धुवारमूलं श्वेतापराजितामूलं द्वयं मलेन पिष्वा पानं दीकरैर्दष्टे हितम् । पाकलं कुष्ठं समधु नस्य हिलाम् । मझिम्स्यादि। मञ्जिष्ठा च मधु च यष्टयाहा च जीवकश्च ऋषभकश्च सिता व कामय्येवट्योः शुङ्गानि सर्व समं पिष्ट्वा जलेन मण्डलिनां विषे पान हितम् । व्योषमित्यादि । व्योषादि दशद्रव्यं पिष्ट्वा प्रकरणात् पानं राजिमतां विषाहन्तिः । सहेत्यादि। गृहधूमादिसमूलतण्डुलीयान्तं समं पिष्ट्वा दपिघृताप्लुतं वासुकिमापि अन्यैरपि सपैदेष्टः पिबेत् । क्षीरीत्यादि। कीददष्टे वमनादिना शुद्धानरे क्षीरिक्षाणां वटोदुम्बरादीनां खगालेपस्तत्कीटविषापहः । तस्मिन् कोर्टविषे मुक्तालपो मुक्तां जलेन पिष्ट्वा लेपो वरः श्रेष्ठः शोथाद्यपहम् ॥५२॥ चक्रपाणिः-श्वेता चेति गिरिकर्णिकाविशेषणम् । तेन इवेतमपराजिता गृह्यते। चित् गिरिकर्णिको स्यन्दनमाहुः। पाकलं कुष्ठम् । मुक्ता मौक्तिकम् ॥ ५२ ॥ . .......... For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy