SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८० चरक-संहिता। [विषचिकित्सितम् तपन्ति च ॥ ससागरगिरिद्वीपा यरियं धार्यते मही। क्रद्धा निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत् ॥ नमस्तेभ्योऽस्ति तेषां न कार्य किञ्चित् चिकित्सया। ये तु दंष्ट्राविषा भौमा ये दशन्ति च मानुषान् । तेषां सङ्ख्यां प्रवक्ष्यामि यधावदनुपूवेशः॥ अशीतिरेव सर्पाणां भिद्यत पञ्चधा तु सा॥ दर्वीकरा मण्डलिनो राजिमन्तस्तथैव च। निविषा वैकरञ्जाश्च त्रिविधास्ते पुनः स्मृताः। दर्तीकरा मण्डलिनो राजिमन्तथ पन्नगाः । तेषु दर्वीकरा शे या विंशतिः षट् च पन्नगाः। द्वाविंशतिमण्डलिनो राजिमन्तस्तथा दश। निविंषा द्वादश शे या वैकरात्रयस्तथा। वैकरञ्जोदभवाः सप्त चित्रामण्डलिराजिलाः। पदाभिमृष्टा दुष्टा वा क्रु द्धा ग्रासार्थिनोऽपि वा। ते दशन्ति महाक्रोधास्तेषां त्रैविध्यमुच्यते। सर्पितं रादतं वापि तृतीयमथ निर्विपम्। सङ्गिाभिहतं केचिदिच्छन्ति खलु तद्विदः। पदानि यत्र दन्तानामेकं द्वे वा वहूनि च। निमनान्यल्परक्तानि यान्युत्त्य करोति हि । चञ्चुमालकयुक्तानि वैकृत्यकरणानि च। संक्षिप्तानि सशोफानि विद्यात् तत् सर्पितं भिषक् ॥ राज्यः सलोहिता यत्र नीलाः पीताः सितास्तथ। विश यं रदितं तत् तु शेयमल्पविषञ्च तत् ॥ अशोफमल्पदुष्टामुक प्रकृतिस्थस्य देहिनः। पदं पदानि वा विद्यादविषं तचिकित्सकः। सर्पस्पृष्टस्य भीरोहि भयेन कुपितोऽनिलः। कस्यचित् कुरुते शोफं साङ्गाभिहतं तु तत् ॥ व्याधितोद्विग्नदष्टान क्ष यान्यल्पविषाणि तु। तथातिद्धबालातिदष्टमल्पविषं स्मृतम्। सुपर्णदेवब्रह्मर्षियक्षसिद्धनिषेविते। विषघ्नौषधियुक्तं च देशे न क्रमते विषम् ॥ रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः। शेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः॥ ज्ञया मण्डलिनः सर्पा ज्वलनार्कसमप्रभाः। मण्डले विविश्चित्राः पृथवो मन्दगामिनः। स्निग्धाः विविधवर्णाभिस्तिर्यम् ऊद्धन्तु राजिभिः। चित्रिता इव ये भान्ति राजिमन्तस्तु त स्मृताः॥ मुक्तारूप्यमभा ये च कपिला ये च पन्नगाः। सुगन्धिनः सुवर्णाभास्ते जात्या ब्राह्मणाः स्मृताः॥ त्रियाः स्निग्धवर्णास्तु पन्नगा भृशकोपनाः। सूर्यचन्द्राकृतिच्छत्रलक्ष्म तेषां तथाम्बुजम् ॥ कृष्णा वजनिभा ये च लोहिता वर्णतस्तथा। धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाः स्मृताः॥ महिषद्वीपवर्णाभास्तथव परुषवचः। भिन्नवर्णाश्च ये केचिच्छूद्रास्ते परिकीर्तिताः॥ कोपयन्त्यनिलं जन्तोः फणिनः सर्च एव तु। पित्तं मण्डलिनश्चापि कफञ्चानेकराजयः॥ अपत्यमसवर्णाभ्यां द्विदोषकरलक्षणम्। शेयो दोषो For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy