SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१७६ चरक-संहिता। [विषचिकित्सितम् दोषस्थानप्रकृतीः प्राप्यान्यतमं हादीरयेत् । स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु । तृण्मोहारतिमूर्छागलग्रहच्छदि फेणादि ॥ पित्ताशयस्थितं पैत्तिकस्य कफपित्तयो-इ-विषं तद्वत् । तृट्कासज्वरवमथक्लमदाहतमोऽतिसारादि ॥ कफदेशगतं कफाधिकस्य + वातपित्तयोश्च दर्शयति। लिङ्ग श्वासगलग्रहकण्डूलालावमवादि ॥ १३ ॥ दूषोविषश्च शोणितदुष्टयारुकिटिमकोठलिङ्गश्च। विषमेकैकं दोषं सन्दूषा हरत्यसूनेवम् ॥ गङ्गाधरः-दोषेत्यादि। दोषस्थानप्रकृतीनामन्यतमं प्राप्य हि यस्माद विषं दोपस्थानप्रकृतीरुदीरयेत् । तदयथा। स्यादित्यादि। वातिकस्य षडविंशतिजातिदर्वीकरस्य सर्पस्य, वातस्थाने स्थितं ईषत् कफपित्तलिङ्गं तण्मोहादि फेनान्तमुदोर येत्। पित्ताशयेत्यादि। पैत्तिकस्य द्वाविंशतिजातिमण्डलिनः सर्पस्य विषं पित्ताशयस्थितं कफवातयोलिङ्गं तटकासादि तद्वत् किश्चिदुदीरयेत्। कफेत्यादि। कफदेशगतं विषं, कफाधिकस्य दशविधस्य राजिमतः सर्पस्य विषं वातपित्तयोलिङ्गं श्वासादिकमीषत् दर्शयति ॥१३॥ गङ्गाधरः-दूषीविषञ्चत्यादि। दृषीविषञ्च स्थावरजङ्गमकृत्रिमान्यतरं विषं विषघ्नौषधादिभिहतवीर्य देहादनिर्गतं विषं, शोणितदुष्ट्या खल्वरुव्रणः, व्रणप्रभृतिलिङ्गश्च दर्शयति। दूषीविषत्वं यथा स्याद्विषं तदुक्तं चक्रपाणिः-सम्प्रति स्थान वशेषप्राप्त्या लिङ्गविशेषानाह-वातिकस्येत्यादि। विष मय यद्यपि त्रिदोषकोपनं स्थानप्रकृति विशेषप्राप्त्या तदोषप्रकोपमधिकं करोति। वातिकस्येति वातप्रकृतैः। वातस्थाने पक्वाशयादौ कफपित्तलिङ्गमीदितिवचनेन वातलिङ्गानि बहुनि भवन्ति तानि तृणमूछेत्यादिनोक्तानि यानि। एवं उत्तरत्रापि योज्यम् । कफवातयोस्तद्वदिति ईषदित्यर्थः। कफस्येत्यादौ चकारात्कफप्रकृतरित्यर्थः। ईषद्वातपित्तयोरिति योज्यम् ॥ १३॥ चक्रपाणिः-दूषीविषलक्षणमाह-दूषोत्यादौ। कोठो वरटीदंशशोथाकारः। कालान्तरप्रकोपं दूषीविषम्। उक्तञ्चान्यत 'यस्माद् दूषयते धातून् तस्माषीविषं स्मृत'मिति । एवम्भूतञ्च गरमेव प्रायो भवति। तथा स्थावरं जङ्गमञ्च भवति । यदुक्तं सुश्रुते "जीर्ण कफवातयोरिति चक्रसम्मतः पाठः । कफस्य दर्शयेद वातपित्तयोश्चैतत् इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy