SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१७२ चरक-संहिता। विषचिकित्सितम जङ्गमं स्यादूर्द्ध भागमधोभागन्तु मूलजम् । तस्मादंष्ट्राविषं मौलं हन्ति मूलञ्च दष्ट्रिजम् ॥६॥ गङ्गाधरः-तयोर्गतिभेदमाह-जङ्गमं स्यादित्यादि। जङ्गममिह दंष्ट्राविष दंष्ट्राविषमूलविषयोरेवोद्धगत्यधोगतिस्वभावात् परस्परोपघातित्वं नबन्येषां पुष्पादिलालादिविषाणां गतिभेदेऽपि परस्परोपघातित्वं तत्वभावात् । विशेषणमुक्तं सुश्रते-"उद्वेष्टनं मूलविषः प्रलापो मोह एव च। जम्माङ्गोद्वेष्टनश्वासा ने याः पत्रविषेण तु । मुष्कशोफः फलविषैर्दाहोऽनद्वष एव च। भवेत् पुष्पविश्छदिराध्मानं मोह एव च। खक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि । आस्यदौर्गन्ध्य-पारुष्य-शिरोरुक कफसंस्रवाः । फेणागमः क्षीरविषे विभेदो जिम्भजिह्वता। हृत्पीड़नं धातुविषैमूर्छा दाहश्च तालुनि। प्रायेण कालघातीनि विषाप्येतानि निर्दिशेत् । कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम्। स्पर्शाशानं कालकूटैपथः स्तम्भ एव च। ग्रीवाभङ्गो वत्सनाभे पीतविण्मूत्रनेत्रता। सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च। ग्रीवादोर्बल्यवाक्सङ्गो पालकेऽनुमता विह। प्रसेकः कई माख्ये तु विड्भेदो नेत्रपीतता। वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते। गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु। शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः। पुण्डरीकेण रक्तसमक्ष्णोर्ट द्धिस्तथोदरे। वैवयं मूलकैश्छईि हिकाशोफप्रमूढ़ताः। चिरेणोच्छसिति श्यावो नरो हालाहलेन वै। महाविषेण हृदये ग्रन्थिशूलोद्गमो भृशम्। कर्कटेनोत्पतत्यूद्ध हसन दन्तान् दशत्यपि। कन्दजान्युग्रवोर्याणि प्रयुक्तानि त्रयोदश। सर्वाणि कुशलक्षे यान्येतानि दशभिर्गुणैः। रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च। विकाशि विशदञ्चैव लघ्वपाकि च तत् स्मृत"मिति ॥९॥ चक्रपाणिः-तद्तधम्ममभिधाय हेतुमत्परस्परोपघातकत्वमाह-जङ्गममित्यादि। तस्मा. दिति परस्पर विरुद्धगामित्वात्। एतेन च यद्वक्ष्यति दंष्ट्रिविषं मौलं हन्ति मौलश्च दंष्ट्रिजम् । तदुपपन्न भवति । नतु, विषं विषमुक्तम् यत् प्रभावस्तव कारणमिति-आतेयभद्रकाप्यीये प्रभावेण विषस्य विषहरणाभिधानात् इत्युपपत्तिविरुद्ध वर्णनम्। यदि प्रभावः कारणं न स्यात् तदा यरिकश्चिदुई भागं मदनफलादि तद् दंष्ट्राविषहरं स्यात्। यद्वाधोभागं शिवृतादि तत् मौलविष हन्यात्। नचैतदृष्टम्, तस्मात् प्रभावस्यैवानुगुणे ईषन्मावकारणमेतत् अधोभागत्वमूर्द्धभागवन्चेति ॥९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy