SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१६० चरक-संहिता। [ तृष्णाचिकिरिसतम तज्जं वा घृतमिष्टं पानाभ्यङ्गेषु नस्यमपि च स्यात् । नारीपयः सशर्करमुष्ट्रया अपि नस्यमिक्षुरसः॥ क्षीरेक्षुरसगुड़ोदकसितोपलाक्षौद्रसीधुमाध्वीकैः । वृक्षाम्लातुलुङ्गगण्डूषास्तालुशोषघ्नाः ॥ १५॥ जम्ब्वाम्रातकबदरीवेतसपञ्चपल्लवैश्चाम्लाः। हृन्मुखशिरःप्रदेहाः संश्रितमूर्छाभ्रमतृष्णानाः॥ दाडिमदधिस्थलोध्रः सविदारीवीजपूरकैः शिरसः । लेपो गौरामलकैघृ तारनालयुतैश्च हितः॥ शैवलपङ्काम्बुरुहैः साम्लैः सघृतैश्च शक्तुभिलेपाः॥ १६ ॥ मस्त्वारनालार्द्रवसनकमलमणिहारसंस्पर्शाः। शिशिराम्बुचन्दना स्तनतटपाणितलगात्रसंस्पर्शाः॥ इष्टमिति। तज्जं वेत्यादि। तथाविधVतक्षीरजं घृतं तृष्णावतां पानाभ्यङ्गेषु स्यानस्यमपि च स्यात् । नारीपय इत्यादि। सशर्करं नारीपयस्तष्णावतां नस्यं स्यात् । उष्ट्रया अपि पयः सशर्करं नस्यं स्यात् । इक्षुरसश्च नस्यमिष्टम् । क्षीरेत्यादि। क्षीरादीनामन्यतमेन गण्डूषास्तालुशोषघ्नाः ॥१५॥ गङ्गाधरः-जम्ब्बाम्र त्यादि। जम्बूफलादिभिरम्ला हृदादिषु प्रदेहाः संश्रितान् मूर्छादीन् घ्नन्ति । दाडिमेत्यादि। दाडिमादिभिः पञ्चभिः शिरसो लेपः संश्रितमूर्छादिषु हितः। गौरामलकैरारनालपिष्टै तयुतैः शिरसो लेपश्च तेषु हितः। गौरा हरिद्रा। शैवलेत्यादि। शैवलादिभिः सकतन्तः षड् भिः षट् लेपास्तु माना इति परेणान्वयः ॥१६॥ .. गङ्गाधरः -मस्वारनालान्यतरेणार्द्रवसनस्पर्श कमल-मणिहारसंस्पशाश्च तृष्णानाः। शिशिराम्बुना चन्दनेन वादोनां स्तनतटपाणितलगात्राणां चक्रपाणिः-तज्जमिति मधुरादितृतक्षीरजम् । मार्दीक मृद्वीकारसः। गहूषो मुखपूरको चक्रपाणिः-पञ्चाम्लं 'कोलवृक्षाम्लचूक्रीकासंयुतश्चाम्लवेतसैः । चतुरम्लमिति प्रोक्तं पञ्चाम्लन्तु सदाडिम'मिति वचनाज्ञेयम् । दधिरथः कपित्थः । गौरामलकैरिति आईतया गौरदण्डैरामलकैः ॥१६॥ • मा-कैरिति चक्रसम्मतः पाठः । द्रवः॥ १५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy