SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१श अध्यायः] चिकित्सितस्थानम् । बलां नागबलां पथ्यां भूजयन्थिं विभीतकम्। . वंशपत्राण्यग्निमन्थं दद्याद ग्रन्थिविलेपनम् ॥ दन्तोचत्रकमूलत्वक सुधाकेपयसी गुड़ः। भल्लातकास्थि कासोसं लेपो भिन्द्यााच्छलामपि । वहिर्मार्गाश्रितं ग्रन्थिं किं पुनः कफसम्भवम् ॥ ४२ ॥ दीर्घकालस्थितग्रन्थिं भिन्द्याद वा भेषजैरिमः॥ मूलकानां कुलत्थानां यूः सक्षारदाडिमः। गोधूमान्नैर्यवान्नैश्च ससीधुमधुशर्करः॥ सनौद्रर्वारुणीमण्डैातुलुङ्गरसान्वितैः । त्रिफलायाः प्रयोगश्च पिप्पलोक्षौद्रसंयुतः ॥ देवदारुपटुव्योष-प्रयोगरिकस्य च। मुस्तभल्लातसक्तूनां प्रयोगैर्माक्षिकस्य च ॥ ग्रन्थिं लेपयेत्। बलामित्यादि। बलादिकं प्रत्येकं ग्रन्थिविसपे. लेपनं दद्यात्। दन्तीत्यादि। दन्तीमूलखक चित्रकमूलखक स्नुह्यर्कयोः पयसी गुड़ः भल्लातकस्यास्थि कासीसं हिराकस् इति लोके। एषां समानानां लेपो बहल उष्णलेपः शिलामपि भिन्धात् कफसम्भवं ग्रन्थिं वहिर्मार्गाश्रितं यत् भिन्द्यात् तत् पुनः किम् ? ।। ४२॥ गङ्गाधरः-दीर्घत्यादि। इमैवेक्ष्यमाणः। मूलकानामित्यादि। मूलककुलत्थयोयषैः सक्षारदाडिमैरित्येकं भेषजम् । गोधूमान्नैः खिन्नगोधूमतण्डुलेयवान्नस्तथाविधैः ससीधुमधुशर्करेरिति द्वितीयम्। सक्षौद्रेर्वारुणीमण्डैः मातुलुङ्गरसान्वितैरिति तृतीयम् । पिप्पलीक्षौद्रसंयुतैत्रिफलायाः प्रयोगश्चतुर्थम् । देवदारु पटु सन्धवं व्योषञ्चषां प्रयोगरिति पञ्चमम् । गैरिकस्य प्रयोगेरिति षष्ठम् । मुस्तादीनां त्रयाणां प्रयोगः सप्तमम् । माक्षिकस्य प्रयोगरिति चाष्टमम् । चक्रपाणिः-नत्तमालं करञ्जकः । बिभीतकस्य वेत्यव कल्केनेति योज्यम् । दन्तीत्यादौ लेपो भिन्द्यात् शिलामपि स कफग्रन्थिं नितरां भिन्यादिति भावः ॥ ४२ ॥ चक्रपाणिः-इमैरिति वक्ष्यमाणः। गिरिजं शिलाजतु । गिरिजप्रयोगश्च रसायनोक्तो ज्ञेयः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy