SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१श अध्याय:] २१श अध्याया] चिकित्सितस्थानम् । ३१४१ शैवालं नलमूलानि गोजिह्वा वृषकर्णिका। इन्द्राणिशाकं सघृतं * देयं वा दाहशान्तये ॥ . प्रदेहाः सर्व एवैते रक्तपित्तोल्बणे हिताः ॥३३॥ कफजे तु + प्रवक्ष्यामि प्रदेहानपरान् हितान् । त्रिफलापद्मकोशोरं समझा करवीरकम् । नलमूलान्यनन्ता च प्रदेहमुपकल्पयेत् ॥ खदिरं सप्तपर्णञ्च मुस्तमारग्वधं धवम् । कुरुण्टकं देवदारु दद्यादालेपनं हितम् ॥ आरग्वधस्य पत्राणि त्वचः श्लेष्मातकस्य च । इन्द्राणिशाकं काकाहां शिरीषकुसुमानि च ॥ शैवालं नलमूलानि वीरां गन्धप्रियङ्ग काम् । त्रिफलां मधुकं वीरां शिरीषकुसुमानि च ॥ शैवालमित्यादि। वृषकर्णिका सुदशना। इन्द्राणिशाकं सिन्धुवारपत्रम् । उम्बरवगादीनामेतदन्तानामेते सर्वे प्रदेहा रक्तपित्तोल्वणे विस हिताः॥३३॥ गङ्गाधरः-कफजे तु विसर्प प्रदेहान् प्रवक्ष्यामि। त्रिफलेत्यादि। समझा मञ्जिष्ठा। त्रिफलादिभिः सचः प्रदेहमुपकल्पयेत्। खदिरमित्यादि । कुरुण्टको नीलझिण्टी। आरग्वधेत्यादि। श्लेष्मातकः शेलक्षः। इन्द्राणिशाकं सिन्धुवारपत्रम्। काकाहा काकमाची। शिरीषकुसुमानि द्विरुक्त्या खल्पवृहच्छिरीषकुसुमानि। दाखिक चाभया चेति द्वन्द्वकवद्भावे नपुंसकम् । इन्द्राणिनिर्गुण्डी। बलाघृतमिति छेदः। प्लक्षः अल्पदीर्घपतः। प्रदेहा इत्यनेन पूर्वोक्तप्रदेहाना भिन्नविषयाणां कफेनधिकारात् अपरान् प्रदेहानाह-सकर्फ स्वित्यादि। अनन्ता उत्पलसारिवा। कुरण्टको म्लानका। श्लेष्मातको वहुवारक इति प्रसिद्धः। इन्द्राणिशाकं केचित् मत्स्याक्षक इति आहुः । निर्गुण्डीति परे। काकासा गोष्ठोदुम्बरिका गन्धप्रियङ्गुको इति * शिरीषत्वगबलाघृतमिति ऋतः पाठः। न सकफे तु इति चक्रसम्मतः पाठः। ३९४ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy