SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१श अध्यायः ] चिकित्सितस्थानम्। ३१३६ न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः। विसग्रन्थिश्च लेपः स्याच्छतधौतघृतप्लुतः ॥ कालेयं मधुकं हेम वन्यं चन्दन को। पत्रं ® मृणालं फलिनी प्रदेहः स्यादघृतप्लुतः॥ शालूकञ्च + मृणालश्च शङ्ख चन्दनमुत्पलम् । वेतसस्य च मूलानि प्रदेहः स्यादघृतप्लुतः॥ शारिवा पद्मकिञ्जल्कमुशीरं नीलमुत्पलम् । मञ्जिष्ठा चन्दनं लोध्रमभया च प्रलेपनम् ॥ नलदञ्च हरेणुश्च लोध्र मधुकमुत्पलम् । दूर्वा सर्जरसश्चैव सघृतं स्यात् प्रलेपनम् ॥ यावकाः सक्तवश्चोक्ताः सर्पिषा सह योजिताः। प्रदेहा मधुकं वीरा सघृता यवसक्तवः ॥ बलामुत्पलशालूकं वोरामगुरुचन्दनम् । दद्यादालेपनं वैद्यो मृणालानि विसानि च ॥ गङ्गाधरः-उडुम्बरेत्यादि। उडम्बरो यज्ञडुम्बरः । न्यग्रोधपादा इत्यादि। तरुणा न्यग्रोधस्य पादा मूलानि कदलीगर्भः कदल्या वृक्षस्य मध्यस्थः। विसग्रन्थिमणालग्रन्थिः। कालेयमित्यादि। कालेयं कालीयकाष्ठं हेम नागकेशरपुष्पं वन्यं कैवर्तमुस्तकम् मृगालमुशीरम् । शालूकञ्चेत्यादि। शालूकं पद्मादीनां कन्दः मृणालमुशीरं शङ्ख शङ्खप्रन्थिः। वेतसस्य च मूलानीति । शारिवेत्यादि स्पष्टम् । नलदमित्यादि। नलदमुशीरम्। यावका इत्यादि। यावका यवानां सक्तवश्च सर्पिषा सह योजिताः प्रदेहा उक्ताः। मधुकं वीरा शालपर्णी यवशक्तवश्च सघृताः प्रदेहा उक्ताः। बलामित्यादि। उत्पल चक्रपाणिः-न्यग्रोधपादा इति न्यग्रोधप्ररोहाः। कदलीगर्भा गर्भस्था कदली। कालेयं कालेयकाष्ठमित्यर्थः। हेम इति नागकेशरचूर्णम् । वन्यं कैवर्तमुस्तकम्। शादवलं दूर्वा । * एला इति पाठान्तरम्। + शाद्वलमिति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy