SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org २१श अध्यायः] चिकित्सितस्थानम्। पटोलपत्रमुगानां रसमामलकस्य च । पाययेत् तु घृतोन्मिश्रं नरं वीसर्प पीड़ितम् ॥ यच्च सर्पिर्महातिक्तं पित्तकुष्ठनिवर्हणम्। निर्दिष्टं तदपि प्राज्ञो दद्याद वीसर्पशान्तये ॥ त्रायमाणाघृतं सिद्धं गौल्मिके यदुदाहृतम् । विसर्पाणां प्रशान्त्यर्थं दद्यात् तदपि बुद्धिमान् ॥ ३०॥ त्रिवृच्चूर्ण समालोडय सर्पिषा पयसापि वा। घम्बुिना वा संयोज्य मृद्वीकानां रसेन वा॥ विरेकार्थ प्रयोक्तव्यं सिद्धं वोसर्पनाशनम् । त्रायमाणाशृतं वापि पयो दद्याद विरेचनम् ॥ त्रिफलारससंयुक्तं सपिस्त्रिवृतया सह। प्रयोक्तव्यं विरेकार्थ विसर्पज्वरशान्तये॥ रसमामलकानां वा घृतमिश्रं प्रदापयेत् । स एव गुरुकोष्ठाय त्रिवृच्चूर्णयुतो हितः॥ ३१ ॥ प्रक्षिप्य प्रदापयेत् । मसूरविदलैर्युक्तं पटोलादिकषायं घृतमिश्रं प्रदापयेत् । पटोलपत्रेत्यादि। पटोलपत्रमुगानां रसं काथं घृतोन्मिश्रम् आमलकस्य वा रसं घृतोन्मिश्रं पाययेत् । यच्चेत्यादि स्पष्टम् । त्रायमाणेत्यादि स्पष्टम् ॥३०॥ ___ गङ्गाधरः-त्रिचूर्णमित्यादि। त्रिचूर्ण सर्पिःपयउष्णाम्बुद्राक्षारसान्यतमेन विरेकार्थ प्रयोक्तव्यमिति । त्रायमाणेत्यादि। त्रायमाणाकल्काष्टमांश चतुर्गुणजले भृतं पयो दद्यात्। त्रिफलेत्यादि। त्रितया सह सपिस्त्रिफलारससंयुक्तं प्रयोक्तव्यम्। रसमित्यादि। स एवामलकानां रस एव ॥३१॥ चक्रपाणिः-मसूरविदलैरिति मसूराणां विदलैः। न चात्र विदला श्यामा, तस्याः स्त्रीलिङ्गत्वात् ॥३० चक्रपाणिः–त्रिफलारसादिभिः समं घृतं देयम्। गुरुकोष्ठाय इति क्रूरकोष्ठाय। दोषपूर्णकोष्ठं गुरुकोष्ठमाहुः ॥३॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy