SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसायनपाद ३ २३१६ चरक-संहिता। मधुकेन तुगाक्षी- पिप्पल्या चौद्रसर्पिषा। त्रिफला सितया चापि युक्ता सिद्धं रसायनम् ॥ १३ ॥ सर्वलोहैः सुवर्णेन वचया मधुसर्पिषा। विङ्गपिप्पलीभ्याञ्च त्रिफला लवणेन च ॥ संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा। भवत्यायुःप्रदा धन्या जरारोगनिवर्हिणी ॥ १४ ॥ इति त्रिफलारसायनानि । अनम्लञ्च कषायञ्च कटु पाके शिलाजतु। नात्युषणशीतं धातुभ्यश्चतुर्यस्तस्य सम्भवः ॥ गङ्गाधरः--मधुकेनेत्यादि । त्रिफला चूर्णीकृता कल्कीकृता वा मधुकेन यष्टी मधुचर्णेन समानाः शुद्धतनोः कुटीप्रविष्टस्पायुष्यक्षीरसपिरोदनाद्याहाराशनस्य संवत्सर युक्त्या यथामिवलं प्रयुक्तं सिद्धं रसायनं भवति। एवं तुगाक्षीय वंशलोचनया सह त्रिफला सिद्धं रसायनं भवति। तथा पिप्पल्या सह त्रिफला युक्त्या प्रयुक्ता सिद्धं रसायनं भवति । एवं क्षौद्रसपिपा वत्सरातीतेन प्रयुज्य तथा सितया वा त्रिफला प्रयुक्ता तथा भवति । इति पञ्च योगाः ॥१३॥ गङ्गाधरः सर्वेत्यादि । संशुद्धतनोः कुटीप्रविष्टस्यायुष्यक्षीरसपिरोदनाद्याहाराशनस्य त्रिफला सर्चलोहैः सह समानांशेन मिलिता मेधादिप्रदादिर्भवति । केवलेन मारितसुवर्णेन सह वा त्रिफला तथाविधा भवति। वचया वा सह त्रिफला तथाविधा स्यात् । मधुसर्पिषा सह वा त्रिफला तथाविधा स्यात् । विड़ङ्गपिप्पलीभ्यां वा त्रिफला तथाविधा स्यात् । लवणेन सैन्धवेन वा सह त्रिफला तथार्थकरी स्यात् इति षड़ योगास्त्रिफलायाः। इत्येवं द्वादश योगास्त्रिफलायाः॥१४॥ त्रिफलारसायनानि । गङ्गाधरः-अथ शिलाजतुप्रयोगमाह-अनम्लमित्यादि। अनम्ल मितीपदम्लं न खम्लरसरहितं कषायमित्युक्त्या तल्लाभे अनम्लमिति वचनस्य वैयर्थ्यात् । युज्यते। मधुकेनेत्यादिरेकः प्रयोगः। सर्वलोहैरित्याद्यपरः। 'लौहैः' इत्युक्ते सुवर्णे प्राप्ते 'सुवर्णेन' इतिपदं लौहत्वेनास्य प्रसिद्धस्य ग्रहणनिषेधार्थम् ॥ ११-१४ ॥ चक्रपाणिः-शिलाजतुरसायनं दर्शयितु शिलाजतुनोऽभ्यर्हितस्य गुणानेव तावदाह-अनम्ल For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy