SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९श अध्यायः] चिकित्सितस्थानम् । ३०८४ पलाशफलनिर्यह पयसा सह ना पिवेत् । ततोऽनु कोष्णं पातव्यं क्षीरमेव यथाबलम् ॥ प्रवाहिते मले तेन प्रशाम्यत्युदरामयः। पलाशवत् प्रयोज्या वा त्रायमाणा विशोधनो ॥ ३५ ॥ सांसयों ह्रियमाणायां शूलं यद्यनुवर्तते। स्त्र तदोषस्य तं शीघ्र यथावदनुवासयेत् ॥ शतपुष्पावरीभ्याञ्च पयसा मधुकेन च । तलपादं घृतं सिद्धं सविल्वमनुवासनम् ।। ३६ ॥ कृतानुवासनस्यास्य कृतसंसर्जनस्य च। वर्त्तते यद्यतीसारः पिच्छावस्तिरतः परम् ॥ विरेचनमाह-पलाशेत्यादि। पलाशफलस्य निय्यूह पयसा सह स ना पिवत् । ततोऽनु यथाबलं कोष्णं क्षीरं तेन पातव्यमेव । मले तेन प्रवाहिते वेगेन विमृष्ट उदरामयः प्रशाम्यति । पलाशवदित्यादि । त्रायमाणा त्रायन्ती विशोधनी पलाशक्त् प्रयोज्या। त्रायमाणां निःकाथ्य पयसा सह स बहुदोषो दीप्ताग्निः समाणः पूर्व क्रियाभिरनिवृत्तपित्तातिसारी पिबेत् ततोऽनु कोष्णं क्षीरं यथावलं तेन पातव्यं, तेन प्रवाहिते मले सति उदरामयः प्रशाम्यतीति ॥ ३५॥ ___ गङ्गाधरः-सांसामित्यादि। एवंविरेचनेन सांसयों शेषमलसंसर्गकानिवृत्त्यां हियमाणायां सत्यां स तदोषस्य यदि शुलमनुवर्तते तदा सु तदोषं तं शीघ्र यथावदनुवासयेत्। अनुवासनमाह-शतपुष्पेत्यादि । वरी शतावरी। तैलं पादं यत्र तत्। घृताच्चतुर्थांशतिलतैलमेकांकृत्य शतपुष्पाशतावरीयष्टीमधुकबालविल्वानि पादिकानि कल्कीकृत्य पयसा चतुगुणेन सिद्धमनुवासनं भवति ॥३६॥ गङ्गाधरः कृतेत्यादि। एतेन कृतानुवासनस्यास्य नरस्य कृतसंसर्जनस्य च कृतभोजनस्य यद्यतीसारो वर्त्तते, तदा ततः परं पिच्छावस्तिर्विधीयते । चक्रपाणि-न तिष्ठति न निवर्तते। पलाशवदिति उक्तपलाशफलविधानेन ॥३५॥ चक्रपाणिः-संसमिति पेवादिक्रमे। शतपुष्पेत्यादौ वरी शतावरी। अनुवासन दद्यादिति शेषः॥३॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy