SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८० चरक-संहिता। [अतिसारचिकिसितम् तस्मादुपेक्षते क्लिष्टान् वर्तमानान् स्वयं मलान् । कृच्छ्वा वहतां दद्यादभयां संप्रवर्तिनीम् ॥ तथा प्रवाहित दोषे प्रशाम्यत्युदरामयः । प्रमथ्यां मध्यदोषेभ्यो दद्याद दोपनपाचनीम् ॥ १६ ॥ जायते देहलघुता जठराग्निश्च वर्द्धते । लानञ्चाल्पदोषाणां प्रशस्तमतिसारिणाम् ॥ १७॥ गङ्गाधरः-तस्मादित्यादि। तस्मात् आमातिसारस्तम्भने शोधादिरोगोत्पादात् स्वयं प्रवर्तमानानु क्लिष्टान् मलानुपेक्षेत। यदि तत्र स्वयं प्रवर्त्तमाना मलाः कृच्छण स्वल्पं स्वल्पं वहति तदा तस्य प्रवर्जिनौं हरीतकी कल्कादिकल्पनया दद्यात्। तया हरीतक्या प्रवाहिते दोष उदरामयोऽतिसारः प्रशाम्यति ॥१६॥ गङ्गाधरः-ततः किं कुर्यादित्यत आह-प्रमथ्यामित्यादि। मध्यदोषेभ्यो नरेभ्यः प्रमथ्यां दद्यात्। प्रमथ्या नाम सा या दीपनपाचनी। तो प्रमथ्यां दद्यादिहवेयं प्रमथ्यासंशा कृता। अल्पदोषाणामतिसारिणां लङ्घन प्रशस्तमिति ॥१७॥ प्रथमञ्चामातीसारस्यापेक्षया विरेचनदानं युक्तम् इति विरोधे इयं व्यवस्था-यत् प्रवृते आमे बलवति च पुरुष प्रवर्तनमेव कर्त्तव्यम्, यदा तु दुब्बलः पुमान् क्षीणशामस्तदा प्रथम प्रवर्तनं कृत्वा संग्रहणं कर्त्तव्यम्। तस्याम् आमावस्थायां संग्रहणे आतुरस्य व शात् मरणमेव स्यात्। अन्ये तु पूर्व संग्रहणं न देयम् इति शाल्मलकुटजस्वगादिसंग्रह न देयम्, मुस्तोदीच्यादिपाचनसंग्रहणं देयमिति वर्णयन्ति। इयशामातिखारचिकित्सा सामातिसाराणां साधारणी ज्ञेया ॥ १५॥ चक्रपाणिः-कृच्छ्. वा वहतामिति सप्रबन्धं वहताम्। प्रमथ्यामिति पाचनीयदीपनीयं कषायम् । प्रमथ्याशब्दो हि वृद्धपरम्परया वैद्यकशासपरिभाषया पाचनदीपनकषाये भूयते ; वधा बिदङ्गकषायः शैखरिककषायशब्देन वरुप्यते । बहुदोषे प्रवर्तन तथा मध्यदोषे प्रमथ्योका ॥॥ चक्रपाणिः-भल्पदोषे च सामे प्रथमं कर्तव्यमाह-लखनमित्यादि ॥७॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy