________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रिसायनपाद३
२३१४
चरक-संहिता। वृहणं स्वयंमायुष्यं प्लीहोदरविनाशनम् । वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ॥ १० ॥
इति वर्द्धमानपिप्पलीरसायनम् ।
त्रिनवत्युत्तर पिप्पलीसहस्रप्रयोगोऽयं रसायन इत्युन्नेयम्। एवं त्रित्रिपिप्पली वृद्धया यथा-प्रथमदिने, तिस्रः पिप्पल्यः, द्वितीयाहे पद, तृतीये नव, चतुर्थ द्वादश, पञ्चमे पञ्चदश, षष्ठे अष्टादश, सप्तमेऽहन्येकविंशतिः, अष्टमे चतुर्विंशतिः, नवमे सप्तविंशतिः, दशमे त्रिंशत्, एकादशे त्रयस्त्रिंशत्, द्वादशे पत्रिंशत्, त्रयोदशे एकोनचत्वारिंशत्, चतुर्दशे द्वाचवारिंशत्, पञ्चदशे पञ्चचत्वारिंशत्, पोडशेऽष्टाचत्वारिंशत्, सप्तदशे त्वेकपञ्चाशत्, अष्टादशे चतुःपञ्चाशत् । इति त्रित्रिपिप्पलीवृद्धया त्रयोदशोत्तराणि पश्चशतानि। एकोनविंशाहेऽपि चतुःपञ्चाशत् । ततो विंशाहे हासादेकपश्चाशत्, एकविंशाहे अष्टाचवारिंशत्, द्वाविंशाहे पञ्चचखारिंशत्, त्रयोविंशाहे द्वाचवारिंशत्, चतुर्विंशाहे एकोनचत्वारिंशत्, पञ्चविंशाहे षट्त्रिंशत्, षड्विंशाहे त्रयस्त्रिंशत्, सप्तविंशाहे त्रिंशत्, अष्टाविंशाहे सप्तविंशतिः, एकोनत्रिंशाहे चतुर्विंशतिः, त्रिंशाहे एकविंशतिः, एकत्रिंशाहेऽष्टादश, द्वात्रिंशाहे पञ्चदश, त्रयस्त्रिंशाहे द्वादश, चतुस्त्रिंशाहे नव, पञ्चत्रिंशाहे पद, पत्रिंशाहे तिस्रः। इति एकीभूय षड्विंशत्युत्तरस्य पिप्पलीसहस्रस्य प्रयोगोऽयं कनीयान् स चावलैः प्रयोज्यः। एतेन पिप्पलीबर्द्धमानप्रयोगस्य तुल्याशिप एव, त्रिधाप्रयोगस्त्रिधापुरुषाभिप्रायेण। तत्रापि कल्कशृतचूर्णीकृतत्वेन विधाप्रयोगः प्रवरमध्यबलाबलानामुत्कर्षमध्यमापकर्षभेदेनाचार्येणोक्त इति बोध्यम्। चर्णीकृता इत्यत्र शीतीकृता इत्येव पाठो युक्तः ह्रस्ववलैरुपयुक्तत्वेनोक्तखात्। अन्यथा बलिभिः पिष्टा इत्यनेन चर्णतुल्यत्वलाभेऽबलबलिनोस्तुल्यप्रयोगः स्यादिति चर्णापेक्षया शीतकपायस्याल्पवीर्यखात् मध्यबलस्य पञ्च सप्त वा पिप्पल्यः क्रमद्धनोपयुज्यन्ते। यदुक्तं हारीतभोजाभ्यां तदनेनाप्रतिषिद्धम् ॥ १०॥ इति वर्द्धमानपिप्पलीरसायनम् ।
पवृद्धया पूर्वाचार्यैरुक्तः । विपर्यन्त इत्यस्यान्ते पिप्पलीवयावस्थानात् पिप्पलीविकेणैव वृद्धिर्भवति, ततो दशपिप्पलीके दशैवान्ते भवन्ति ॥ १० ॥
For Private and Personal Use Only