SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०७८ चरक-संहिता। (अतिसारचिकित्सिर म् इत्युक्ताः षड़तीसाराः साध्यानां साधनं ततः।। प्रवक्ष्याम्यनुपूर्वेण यथावत् तन्निबोधत ® ॥ १४ ॥ कृच्छाजन्तोः षष्ठमेनं वदन्ति।” इति त्रिदोषजत्वेनोक्त आमातिसार आमपाचनप्रधानचिकित्सार्थ पृथगुक्तः, भयजस्तु वातजत्वेन वातजेऽन्तर्भूय षष्ठत्वेनैवामज उक्तः। एवमेव हेतुप्रधानत्वेनापरानप्यतीसारानुक्त्वा दोषजे. ऽन्तर्भावस्तेषां कृतः। तद् यथा-सुश्रुते। “शरीरिणामतीसारः सम्भूतो येन केनचित्। दोषाणामेव लिङ्गानि कदाचिन्नातिवर्त्तते। स्नेहाजीर्णनिमित्तस्तु बहुशूलप्रवाहिकः। विसूचिकानिमित्तस्तु चान्योऽजीर्णनिमित्तजः। विषार्शः क्रिमिसम्भूतो यथावदोषलक्षणः। आमपाक्रमं हिखा नातिसारे क्रिया यतः। अतः सर्वातिसारास्तु श याः पकामलक्षणैः।” इति सर्वाति: सारेष्वामता वर्तते, तत आमजोऽतिसारो यत् पृथगुक्तस्तदाममन्नं दोषदृषितमतिसाराय कल्पते न वामावस्थिकातिसार आमारब्ध इति। इह तन्त्र सामान्नजस्नेहाजीर्णजादयो दोषप्रकोपपूर्वकमेवामानादयोऽतिसारं जनयन्तीति न हेतुभेदैन भेदः कृतः दोषभेदेनैव चरितार्थखात्। भयशोकजयोस्तु मानसधान्तरयोगाद् दोषजत्वेऽपि पृथयुक्तिरिति, नैवमामजादीनां धर्मान्तरयोगोऽस्तीति बोध्यम्। अथात्रापरं जिज्ञास्यं-दोषजेषु यथा सन्निपातज उक्तो न कथं तथा द्वन्द्वजा उक्ता इति ? तत्रोच्यते, दोषभेदास्त्रिषष्टिविधा उक्ताः सर्वे विकारा दोषजास्त्रिषष्टिविधा एव जायन्ते, तत्र पृथगदोपजलक्षणानि प्रतिरोगं परस्परभेदज्ञानार्थमवश्यवाच्यानि भवन्ति, द्वन्द्वसन्निपातास्तु यत्र दोषकर्मविरोधिकर्मवत्त्वेन द्वन्द्वसन्निपातजरोगा जायन्ते तत्र तत्तत्कर्मशानार्थ पृथग्दोषजमुक्त्वा पृथगुच्यन्ते द्वन्द्वजाः सन्निपातजाश्च। यत्र दोषकर्मसजातीयकर्मवत्त्वेन द्वन्द्वजाः सन्निपातजा वा जायन्ते तत्र पृथग्दोषजलक्षणमिहोक्तं तथापि चिकित्साभेदात् तयोर्भेद उक्तः, तथाहि भयजे प्रश्वासनं शोकजे हर्षणम् इति चिकित्साभेदः। चिकित्साभेदोऽस्तु, सुश्रुते तु-'तैस्तै वैः शोचतोऽल्पाशनस्य वाष्पोष्मा से वह्निमाविश्य जन्तोः" इत्यादिना शोकजः प्रबन्धेनोक्तः, स तु शोकजादन्य एव विशिष्टहेतुजन्यः । इह त्वसौ सान्निपातिकेनावरुदो ज्ञेयः। तथाहि तत वाष्पोष्मणो हि पित्तकारणत्वं युक्तं - * “निबोधत" इति बहुवचनन्तु एकस्याप्यग्निवेशस्य समादरगौरवे इति केचित्। क्रियासमभिहारे लोट “त" इत्यपरे। केचित् साहसिकास्तु "निबोध में" इति पठन्ति । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy