SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०७६ चरक-संहिता। अतीसारचिकित्सितम गतम् अतिकुणपपूतिपूयगन्ध्याममत्स्यगन्धि मक्षिकाक्रान्तं कुथितं वा बहुधातुस्रावमल्पपुरीषं बहुपुरीषं वातिसार्यमाणम् तृष्णादाहज्वरभ्रमतमोहिकाश्वासानुबन्धम् अतिवेदनम् अवेदनं वा स्रस्तपकगुदं पतितगुदबलिं मुक्तनालमतिक्षीणबलमांसशोणितं सर्वपळस्थिलिनम् अरोचकारतिप्रलापसम्मोह. परीतं सहसोपरतविकारमतिसारिणम् अचिकित्स्यं विद्यात् । इति सन्निपातातिसारः ॥११॥ तमसाध्यमसाध्यताम् असंप्राप्त चिकित्सेत् यथाप्रधानेनोपक्रमेण हेतूपशवदोषविशेषपरीक्षया चेति ॥ १२॥ उक्तं प्राक , इह नीलिनीपत्रकपायवणं विशे यम् । कबूरवर्ण नानावर्ण मिश्रम् । तन्तुमत् तन्तुलीभूतं चन्द्रकोपगतं शिखिपिच्छाभचन्द्रकमिश्रम्। अतिकुणपगन्धि कुणपं शकः । पूतिगन्धि च पूयगन्धि च आममत्स्यगन्धि च कुथितः पूतिगन्धिर्वहुस्रावोऽथ चाल्पपुरीपं बहुपुरीषं वातिसार्यमाणं नरं तृष्णाद्यनुबन्धं सस्तं वहिनि सृतमथ च पक्व गुदं यस्य तम्, पतितगुदबलिं वहिः निःसृत्यावस्थितव न पुनः स्वस्थानप्रविष्टा गुदलियस्य तम्, मुक्तनालं श्लीभूतं सन्मुक्तं वहिनिःसृतं गुदनालं पुरीषप्रवृत्तिस्रोतो यस्य तं सहसा हठादुपरताः सर्च विकारा यस्य तम्। ईदृशतिसारिणमचिकित्स्यमसाध्यं विद्यात्। इति सनिपातातिसार उक्तः॥११॥ गङ्गाधरः-इतीत्यादि। योऽतिसारस्वसाध्यः तमतिसारमसाध्यताम् असंप्राप्त सनिपातातिसारश्च चिकित्सेत् । यथाप्रधानेन यत्र यत्रातिसारे यो दोषः प्रधानस्तमनतिक्रम्योपक्रमेग हेखादिपरीक्षया च चिकित्सेदिति । इति चखारोऽतिसारा व्याख्याताः। अष्टोदरीये तु पूर्वमुक्तं पड़तीसाराः। षड़तीसारा इति वातपित्तकफसनिपातभयशोकजा इति ॥१२॥ उक्तम् । मेचकाभमिति स्निग्धकृष्णम् । मक्षिकाक्रान्तमिति मक्षिकामय, मक्षिकाक्रान्त इति पाठे मक्षिकापरीत इत्यर्थः । तृष्णेत्यादिना सोपद्वलक्षणसूचकानुपद्रवानाह सहसोपरतविकारमिति ॥११॥ चक्रपाणिः- यद्यपि रिष्टे संशयितमरणमुक्तं तथापि इहातीसारं प्राप्य निश्चितमरणज्ञापकतया अच्यते, यथाप्रधानोपक्रमणेति दोषत्रये यः प्रधानो भवति तस्योपक्रमेत्यर्थः। हेत्वादिपरीक्षा चेह भवति । अब विशिष्ट चिकित्सैवोच्यते ॥ १२ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy