________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अतीसारचिकित्सितम्
३०७२
चरक-संहिता। अतीसारचिकित्सितम् पित्तलस्य पुनरम्ललवणकटुक्षारोष्णतीदणातिमात्रनिषेविणः प्रतताग्निसूर्यासन्तापोष्णमारुतोपहतगात्रस्य क्रोधेाबहुलस्य पित्तं प्रकोपमापद्यते। तद् द्रवत्वादुष्माणमुपहत्य पुरीषाशयाश्रितमौरण्याद् द्रवत्वात् सरत्वाच्च भित्त्वा पुरीषमतिसाराय कल्पते ॥६॥
तस्य रूपाणि-हारिद्र हरितं नीलं कृष्णं रक्तपित्तोपगतम् अतिदुर्गन्धमतिसार्यते पुरीषम्। तृष्णादाहस्वेदमूर्छाशूलबध्नसन्तापपाकपरीतः। इति पिसातिसारः॥७॥ - श्लेष्मलस्य तु गुरुमधुरशीतस्निग्धोपसेविनः सम्पूरकस्य अचिन्तयतो दिवास्वप्नपररयालसस्य श्लेष्मा प्रकोपमापद्यते। तं पक वातादतिसारमाहुः। तमनुग्रथितकमित्येक आहुः। कस्मात् ? वातानुग्रथितवर्चस्वात् । इति ॥५॥
गडाधरः-पित्तातिसारमाह-पित्तलस्येत्यादि। पित्तलस्याम्लायतिमात्रनिषेविण इत्यादेः पित्तं प्रकोपमापद्यते। तदित्यादि। तत्तदम्लायतिमात्र निषेवणादितः प्रकुपितं पित्तं द्रवत्वादुष्माणमुपहन्ति न तु तीक्ष्णोष्णत्वादितो वर्द्धयति तदम्लादिहे- कृततथाविधस्वभावात् । द्रवत्वादुष्माणमुपहत्य पुरीषाशयाश्रितं सदौष्प्यादिभ्यः पुरीष भित्त्वातिसाराय कल्पते। इति पित्तातिसारसम्प्राप्तिः॥६॥
गङ्गाधरः-अथ तस्य रूपाणि । तद् यथा-हारिद्रमित्यादि। रक्तपित्तोप. गतं पुरीषमतिसार्यत इति सोऽतिसारी तृष्णादिपरीतो भवति। पाको गुदपाकः॥७॥
गङ्गाधरः-श्लेष्मातिसारमाह-श्लेष्मलस्येत्यादि। श्लेष्मलस्य गुर्जादुपसेविनः। सम्पूरकस्य द्रवद्रव्यातिसेविनः। अचिन्तयतः सर्वदा चिन्ता.
चक्रपाणिः-पित्तलस्येत्यादिना पित्तातिसारमाह। द्रवत्वादुष्माणमुपहत्येति यद्यपि पित्तम् उष्णम् भग्नेः समानतया वर्दकं भवतीति युज्यते तथापि द्रवत्वादुष्माणं पुरीषाशयगतं पित हन्तीत्यर्थः ॥६॥
चक्रपाणि:-ब्रनो गुदः ॥७॥ चक्रपाणि:-इलेष्मलस्येत्यादिना इलेष्मातिसारमाह। सम्पूरकस्येति-अतिमाताशनशीलस्य ।
For Private and Personal Use Only