SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८श अध्यायः] चिकित्सितस्थानम् । ३०६५ सारियां फैष्करं मूलं कर्कटाख्यां रसाञ्जनम् । पुनर्नवां ले हरजस्त्रायमाणां यमानिकाम् ॥ भार्गी तामलकीमृद्धिं विडङ्ग धन्नयासकम् । चारचित्रकचव्याम्ल-वेतसव्योषदारु च ॥ चूर्णीकृत्य प्लांशानि लेहयेन्मधुसर्पिषा। चूर्णात् पाणितलं पञ्च कासानेतद् व्यपोहति ॥ ६५ ।। पद्मकं त्रिफलां व्योषं विडङ्ग देवदारु च । बलां रानाञ्च तुल्यानि सूक्ष्मचूर्णानि कारयेत् ॥ सवै रेभिः समं चूर्णैः पृथक् क्षौद्र घृतं सिताम् । लिह्याल्लेहं विमथ्यतं सर्वकासहरं शिवम् ॥६६॥ पद्मकादिलेहः। लिह्यान्मरिचचूर्ण वा सघृतक्षौद्रशर्करम् । सर्वकासहरं श्रेष्ठं लेहं कासादितो नरः ।। बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् ।। खरोपघाते कासे च लेहमेतं प्रयोजयेत् ॥ ६७ ॥ गङ्गाधरः-जीवन्तीमित्यादि। वितुन्नकं धान्यकं, लोहरजो मारितपुटितलोहम्। दार्चन्तं सर्च चूर्णीकृत्य प्रत्येकं पलांशं मिश्रयिखा तच्चूर्णात् पाणितलं तद्विगुणेन मधुसर्पिषा मिलितं लेहयेत् । जीवन्त्याद्यचूर्णावलेहो ॥६५॥ __ गङ्गाधरः-पद्मकमित्यादि। पनकादीनि तुल्यानि चूर्णानि कारयेत् । एभिः सर्वेश्चर्णैः समं पृथक् प्रत्येकं क्षौद्रं घृतं सिताश्च दत्त्वा विमथ्य लेह लियात्। पनकादिलेहः ॥६६॥ गङ्गाधरः-लिह्यादित्यादि। मरिचचूण शर्करासमम्। घृतक्षौद्राभ्यां लिखा। बदरीत्यादि। बदरीपत्रकल्कं ससैन्धवं घृते भृष्टं तेनैव भजनघृतेन लिह्यादेतं लेहं स्वरोपघाते कासे च प्रयोजयेत् ॥६७॥ चक्रपाणिः-पाणितकं कर्षः ॥ ६५-६॥..... For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy