SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ३०५६ चरक-संहिता। [कासचिकित्सितम् समूलपत्रशाखायाः कण्टका- रसाढ़के। घृतप्रस्थं बलाव्योष-विड़गशटिचित्रकैः ॥ सौवच्चलयवदार-विल्वामलकपौष्करैः। वृश्चीरवृहतोपथ्या-यमानीदाडिमद्धिभिः॥ द्राक्षापुनर्नवाचव्य-दुरालभाम्लवेतसैः। शृङ्गीतामलकोभार्गी-रानागोक्षुरकैः पचेत् ॥ कल्कैस्तत् सर्वकासेषु हिकाश्वासेषु शस्यते। कण्टकारीघृतं सिद्धं कफव्याधिनिसूदनम् ॥ ४७ ॥ कण्टकारीघृतम्। कुलत्थरससंयुक्तं पञ्चमूलशृतं घृतम् ॥४८॥ धूमांस्तानेव दद्याच ये प्रोक्ता वातकासिनाम् । कोषातकोफलान्मध्यं पिबेद वा समनःशिलम् ॥ ४६॥ तमकः कफकासे तु स्याच्चत् पित्तानुबन्धजे। पित्तकाक्रियां तत्र यथावस्थं प्रयोजयेत् ॥ गङ्गाधरः-समूलेत्यादि। समूलाधायाः कण्टकाय्यो रसाढ़के बलादिभिः गोक्षुरान्तैः कल्कैः पादिकैघृतप्रस्थं पचेत् । तत् सपिः । सव्वैकासे वित्याद्याशीः। कण्टकारीघृतम् ॥४७॥ गङ्गाधरः-कुलत्थेत्यादि। कुलत्थरसश्चतुर्गुणः पञ्चमूलं कल्कः पादिकः । तेन शृतं घृतं सर्चकासेवित्याद्याशीः॥४८॥ ... गङ्गाधरः-धूमांस्तानित्यादि। ये धूमा वातकासिनां प्रोक्तास्तांश्व धूमान् कफकासिने दद्यात्। कोषातकीत्यादि। कोषातक्या घोषकस्य फलमध्यं मज्जानं समनःशिलं धूमं पिबेद धमप्रकरणात् ॥ ४९ ॥ गङ्गाधरः-तमक इत्यादि। तत्र पित्तानुबन्धे कफकासे तमकः श्वासश्चेत् चक्रपाणिः-कष्टकारीघृते बलादिकल्कद्रव्यस्य मिलित्वा कुड़वमानत्वम् ॥ ४७ ॥४८॥ चक्रपाणि:-कोशातकी घोषकः ॥ १९ ॥ * इतः परं "पाययेत् कफजे कासे हिक्कावासेषु शस्यते" इत्यधिक पाठो वहुषु ग्रन्थेषु दृश्यते। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy