SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८श अध्यायः चिकित्सितस्थानम् । ३०५१ मधुरैर्जाङ्गलरसैः श्यामाकयवकोद्रवाः। मुद्गादियूषैः शाकैर्वा तिक्तकैर्मात्रया हिताः॥ घनश्लेष्मणि लेहास्तु तिक्ता मधुरसंयुताः । शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः॥ शकराम्भोऽनुपानार्थ द्राक्षेचूणां रसान् पयः। सर्वश्च मधुरं शोतमविदाहि प्रशस्यते ॥ ३३ ॥ काकोलीवृहतोमेदा-युग्मः सवृषनागरैः । पित्तकासे रसक्षीर-यूषांश्चाप्युपकल्पयेत् ॥ ३४ ॥ शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा। कषायेण शृतं क्षीरं पिबेत् समधुशर्करम् । सितास्थिरानिपो-श्रावणीवृहतीयुगैः। वीरर्षभककाकोली-तामलकृषद्धिजीवकैः। शृतं क्षीरं पिबेत् कासी ज्वरी दाहो क्षतक्षयी ॥ ३५ ॥ विदार्यादीनां रसान क्षीरं सितोपलां प्रत्येकं समानांशेन मेलयिला मधुयुक्त पिबेत् ॥३२॥ गङ्गाधरः-मधुरित्यादि। मधुररसजाङ्गलमांसरसः पकाः श्यामाकादय ओदनरूपा मुद्रादियूस्तिनकः शाकैर्वा मात्रया पित्तकासे हिताः। घनेत्यादि । घनश्लेष्मणि पित्तकासे मधुरसंयुतास्तिक्ता लेहाः शालयश्च हिताः स्युः । तनुकफे रसादिभिर्मधुरजाङ्गलमांसरसमुद्गादियूषतिक्तशाकः षष्टिका हिताः । तद्भोजनादनुपानार्थं शर्कराम्भः। अथवा द्राक्षारस इक्षरसः पयो वा सम्बंश्च मधुरमथ च शीतमविदाहि चानुपानार्थ प्रशस्यते ॥३३॥ गङ्गाधरः-काकोलीत्यादि। काकोलीयुग्महतीयुग्ममेदायुग्मैः सपनागरः कथितैः मांसरसक्षीरयूषान् कल्पयेत् ॥३४॥ गङ्गाधरः-शरादीत्यादि । एको योगोऽयं, योगद्वयमाहुरन्ये। सितेत्यादि । चक्रपाणिः-काकोली यादौ प्रत्येक युग्मैरिति सम्बध्यते ॥ ३३ ॥ ३४ ॥ चक्रपाणिः-शरादिपञ्चमूली तृणपञ्चमूलम् ॥ ३५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy