SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४६ चरक-संहिता। (कासचिकित्सितम् स ह्यस्य तैदण्याद् विच्छेद्य श्लेष्माणमुरसि स्थितम् । निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम् ॥ . मनःशिलालमधुक-मांसोमुस्तैनन्दः पिबेत् । धूमं तस्यानु च पयः कदुष्णं सगुड़ पिबेत् ॥ एष कासान् पृथग्दोष-सन्निपातसमुद्भवान् । धूमो हन्यादसंसिद्धानन्ययोगशतैरपि ॥ प्रपौण्डरीकं मधुकं सशाङ्गेष्टां मनःशिलाम् । मरिच पिप्पली द्राक्षामेला सुरसमञ्जरीम् ॥ कृत्वा वत्तिं पिबेद धूमं दौमचेलानुवर्त्तिताम् । घृताक्तामनु च क्षीरं गुड़ोदकमथापि वा ॥ - मनःशिलैलामरिच-क्षाराञ्जनकुटन्नटः। - वंशलेखनसेव्याल-क्षोमलक्तकरौहिषः॥ धूमकवलं मुञ्चेत् । आशिषमाह-स हीत्यादि। हि यस्मात् । स धूमस्तक्ष्ण्यात् अस्योरसि स्थितं श्लेष्माणं विच्छेद्य निष्कृष्य वातश्लेष्मसमुद्भवं कासं शमयेत् । धूमान्तरमाह-मनःशिलेत्यादि। आलं हरितालम्। ऐडदं फलम् । एभिधूममुक्तप्रकारेण पिबेत् अनु सगुई कदुष्णं पयः पिबेदोजोरक्षार्थम् । एष इत्यादिनाशीः। प्रपौण्डरीकमित्यादि । शार्जेष्टा घण्टारवा । सुरसमञ्जरी तुलसी. मञ्जरी। एतानि पिष्ट्वा क्षोमचेलं म्रक्षयिखाऽनुवर्त्तितां वत्तिं कृता घृताक्तां धूमं पिबेत्, तदनु क्षीरं गुड़ोदकं वा पिबदोजोरक्षार्थ मिति । मनःशिलेत्यादि । एला स्थूला, कुटन्नटं कैवत्तेमुस्तकं, वंशलेखनं वंशनीली, सेव्यमुशीरम्। आलं वमनार्थ तन्तान्तरे पृथगेवोक्तः। यद्यपि पञ्च धूमाः स्नेहनप्रायोगिकवरेचनिककासन. वामनीयाश्चेति सुश्रुते प्रोक्ताः, तथापीह कासनवामनीययोः विरेचनकारकतया कासहरस्य न वमनादिभेद उक्त इति विशेषो ज्ञेयः। छिमिति उपरि नलिकामानच्छिद्रयुक्तम् । जिलामिति वक्राम् । मुखेनैद इति वचनेन प्रागुक्तनासापानं निषेधयति। मनःशिलेप्यादौ भलं हरितालम् । इकुदः पुत्रजीवकः । अस्य धूमस्य पश्चात् क्षीरपानं तीक्ष्णेन धूमेन क्रियमागत्वात् भोजाक्षयादिभयपरिहारार्थम्। सन्निपातजकासो यद्यप्यत्र नोक्तः तथापि प्रकृतिसमसन्निपातस्तु कासो भवत्येव इति वचनात् उन्नीयते। किंवा सामिपातिकः क्षयजकासः वक्ष्यते हि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy